SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ युद्धसमुद्देशः । ३४७ टीका-यो राजातितीक्ष्णो भवति शत्रुमुन्नतं दृष्ट्वाऽनल्पबलोऽपि कोपायुद्धयति स शरभ इव न चिरं नन्दति न चिरकालं राज्यं करोति शरभवत् । यथा शरभोष्टापदो मेघमुन्नतं शब्दं कुर्वाणं श्रुत्वाऽसहमानः पर्वताप्रात् हस्तिनं मत्वा गर्जनं कुर्वाणो भूमौ पतन् शतधा ब्रजति तथा राजाप्यतितीक्ष्णतया विनश्यति । तथा च वादरायण: अतितीक्ष्णतया शत्रु बलाढ्यो दुर्बलो व्रजेत् । स द्रुतं नश्यते यद्वच्छरभो मेघनिःस्वनैः ॥१॥ अथ राज्ञो युद्धमानस्य स्वरूपमाह प्रहरतोऽपसरतो वा समे विनाशे वरं प्रहारो नैकान्तिको विनाशः ॥ १२ ॥ टीका–संग्रामे राज्ञः प्रहरतो युद्धयमानस्यापसरतो व्याघुट्यमानस्य वा समे विनाशे यत्र केवलो विनाशः............ .............। अथ दैवस्य माहात्म्यमाह--- कुटिला हि गतिर्दैवस्य मुम्रर्षमपि जीवयति जिजीविषु मारयति ॥ १३ ॥ ___टीका-देवशब्देन प्राक्तनं कर्मोच्यते तस्य कुटिला वक्रा गतिर्यतो मुमूर्षुमपि मर्तुकाममपि प्राणिनं जीवयति दीर्घायुषं करोति । तथा जिजीविषुमपि जीवितुकाममपि मारयतीति । तथा च कौशिकः मर्तुकामोऽपि चेन्मर्त्यः कर्मणा क्रियते हि सः। दीर्घायु वितेच्छाढ्यो म्रियते तद्रक्तोऽपि सः॥१॥ अथ भूभुजा बलवति शत्रौ समायाते यत्कर्तव्यं तदाहदीपशिखायां पतंगवदैकान्तिके विनाशेऽविचारमपसरेत १४ टीका-अपसरेत् व्याघुटेत् न युद्धं कुर्यात् अविचारं विचाररहितं । कस्मिन् ? विनाशे सति । किंविशिष्टे विनाशे ? ऐकान्तिके सुनिश्चिते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy