SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३४६ नीतिवाक्यामृते श्रूयते हि किल दूरस्थोपि माधवपिता कामन्दकीयप्रयोगेण माधवाय मालती साधयामास ॥७॥ टीका---एतत्संविधानकं मालतीमाधवनाटके ज्ञेयं । अथ भूयोऽपि प्रज्ञामाहात्म्यमाह--- प्रज्ञा ह्यमोघं शस्त्रं कुशलबुद्धीनां ॥ ८ ॥ टीका-प्रज्ञा बुद्धिरेवामोघं सफलमायुधं । केषां ? कुशलबुद्धीनां पण्डितानां । ये प्रज्ञाहता भवन्ति भूमिभृतस्ते भूयोऽपि शत्रुरूपा न भवन्ति । तत्रार्थे दृष्टान्ते दृष्टान्तमाहप्रज्ञाहताः कुलिशहता इव न प्रादुर्भवन्ति भूमिभृतः ॥ ९॥ टीका-प्रज्ञा एव कुलिशं तेन हता भूभृतः पर्वता इव राजानोऽपि न प्रभवन्तीति । तथा च गुरु: प्रज्ञाशस्त्रममोघं च विज्ञानाद्बुद्धिरूपिणी । तया हता न जायन्ते पर्वता इव भूमिपाः ॥१॥ अथादृष्टेऽपि शत्रौ यो भयं करोति स किं करोति तस्य स्वरूपमाहपरैः स्वस्याभियोगमपश्यतो भयं नदीमपश्यत उपानत्परित्यजनमिव ॥ १० ॥ ___टीका-परैः शत्रुभिः सह स्वस्यात्मनोऽभियोगं समागममपश्यन्नवलोकयन् यो राजा भयं करोति स उपानत्त्यागं करोति। किं कुर्वन् ? अपश्यन्ननवलोकयन्। कां ? नदी, हास्यतां यातीत्यर्थः। यथा नद्या अदर्शनेनोपानत्परिमोचनं तद्वच्छत्रावदृष्टेऽपि भयं प्रतिभाति । तथा च शुक्रः यथा चादर्शने नद्या उपानत्परिमोचनं । तथा शत्रावदृष्टेऽपि भयं हास्याय भूभुजां ॥१॥ अथातितीक्ष्णस्य यद्भवति तदाह-- अतितीक्ष्णो बलवानपि:शरभ इव न चिरं नन्दति ॥ ११ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy