SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ युद्धसमुद्देशः। ३४५ भूम्यर्थ भूमिपैः कार्यो नयो विक्रम एव च । देशत्यागो न कार्यस्तु प्राणत्यागोऽपि संस्थिते ॥१॥ अथ शत्रोर्बलयुक्तेन यत्कर्तव्यं तदाहबुद्धियुद्धेन परं जेतुमशक्तः शस्त्रयुद्धमुपक्रमेत् ॥ ४॥ टीका-प्रथमं तावद्बुद्धियुद्धं कर्तव्यं यदि बुद्धियुद्धेन न शक्तः शत्रु जेतुं ततः शस्त्रयुद्धं कुर्यात् । तथा च गर्ग: युद्धं बुद्धयात्मकं कुर्यात्प्रथमं शत्रुणा सह । व्यर्थेऽस्मिन् समुत्पन्ने ततः शस्त्ररणं भवेत् ॥१॥ अथ बुद्धियुद्धस्य माहात्म्यं भूयोप्याह--- न तथेषवः प्रभवन्ति यथा प्रज्ञावतां प्रज्ञाः ॥ ५॥ टीका--तथा तेन प्रकारेण न प्रभवन्ति समर्था भवन्ति । के ? इषवो वाणा यथा बुद्धिमतां बुद्धयः प्रभवन्ति समर्था भवन्ति । तथा च गौतमः न तथात्र शरास्तीक्ष्णाः समर्थाः स्यू रिपोर्वधे। यथा बुद्धिमतां प्रज्ञा तस्मात्तां सन्नियोजयेत् ॥१॥ अथ भूयोऽपि बुद्धिमाहात्म्यमाह दृष्टेऽप्यर्थे सम्भवन्त्यपराद्धेषवो धनुष्मतोऽदृष्टमर्थ साधु साधयति प्रज्ञावान् ॥ ६॥ __टीका-दृष्टेऽप्यर्थे लक्ष्येऽपराधा व्यर्था इषवो वाणाः । यस्य तस्य धनुष्मतो धानुष्कस्य दृष्टेऽप्यर्थे लक्ष्य ( वाणा व्यर्थाः सम्भवन्ति)। यः पुमान् प्रज्ञावान् पुरुषोऽदृष्टमपि पदार्थ साधु यथा भवत्येवं साधयति । तथा च शुक्रः धानुष्कस्य शरो व्यर्थो दृष्टे लक्ष्येऽपि याति च । अदृष्टान्यपि कार्याणि बुद्धिमान् सम्प्रसाधयेत् ॥१॥ अथ माधवमालतीसंविधानकमाह Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy