SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३० युद्ध-समुद्देशः। अथ युद्धसमुद्देशो व्याख्यायते । तत्रादावेव मंत्रिमित्राभ्यां दूषणमाह स किं मंत्री मित्रं वा यः प्रथममेव युद्धोद्योगं भूमित्यागं चोपदिशति, स्वामिनः सम्पादयति च महान्तमनर्थसंशयं ॥१॥ टीका-यः शत्रावुपस्थिते, प्रथममेव मंत्रकाले स्वामिन उपदिशति उपदेशं ददाति । किंविशिष्टं ? युद्धात्मकं युद्धस्वरूपं, भूमित्यागाय देशान्तरगमनाय स मंत्री न भवति, तन्मित्रं न भवति, वैरिरूपिणौ द्वावपि तौ । तथा सम्भावयति महान्तमनर्थसंशयं । तथा च गर्ग: उपस्थिते रिपो मंत्री युद्धं बुद्धिं ददाति यः । मंत्रिरूपेण वैरी स देशत्यागं च यो वदेत् ॥१॥ अथ मंत्रिणो दूषणमाह संग्रामे को नामात्मवानादावेव स्वामिनं प्राणसन्देहतुलायामारोपयति ॥ २॥ टीका--............प्राणसन्देहतुलायां प्राणसन्देहाने। क ? युद्धे संग्रामे । तस्मान्मंत्रिणा शत्रावुपस्थिते युद्धार्थ स्वामी संयोजयितव्यः । तथा च गौतमः उपस्थिते रिपो स्वामी पूर्व युद्धे नियोजयेत् । उपायं दापयेद् व्यर्थ गते पश्चानियोजयेत् ॥१॥ अथ भूम्यर्थे पार्थिवेन यत्कार्यं तदाह--- भूम्यर्थ नृपाणां नयो विक्रमश्च न भूमित्यागाय ॥३॥ टीका-भूमिनिमित्तं नृपाणां राज्ञां, कौ युक्तौ ? नयो नीतिः पराक्रमश्च वीरवृत्तिपरौ द्वावपि कर्तव्यौ न देशत्यागः कार्यः । तथा च शुक्रः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy