Book Title: Niti Vakyamrutam Satikam
Author(s): Somdevsuri, Pannalal Soni
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 391
________________ ३५४ नीतिवाक्यामृते भवति, वनगज इवारण्यहस्तीव । किंविशिष्टो वनगजः ? विशीर्णयूथो भ्रष्टयूथ एकाकीत्यर्थः । तथा च नारद: उच्चाटितोऽरिभी राजा परदेशसमागतः । वनहस्तीव साध्यः स्यात्परिग्रहः विवर्जितः ॥१॥ अथ जलव्यालदर्शनेन विनाशपरिग्रहभूतस्य यद्भवति तदाह-- विनिःस्रावितजले सरसि विषमोऽपि ग्राहो जलव्याल. वत् ॥ ३५ ॥ ____टीका-यथा विनिःस्रावितजले निःसारितोदके सरसि हदे पुष्टोऽपि ग्राहो जलचरविशेषो जलव्यालसदृशो जलसर्पतुल्यो निर्विषो भवति तथा राजापि शून्यराष्ट्रकृतो गतदर्पो भवति । तथा च रैभ्यः सरसः सलिले नष्टे यथा ग्राहस्तुलां व्रजेत् । जलसर्पस्य तद्वच्च स्थानहीनो नृपो भवेत् ॥१॥ अथ भूयोऽपि सिंहदृष्टान्तद्वारेण स्थानभ्रष्टस्य नृपस्य स्वरूपमाह--- वनविनिर्गतः सिंहोऽपि शृगालायते ॥ ३६ ॥ टीका-यदा वनान्निर्गच्छति सिंहस्तदा शृगालायते शृगालसमो नष्टवीर्यो भवति तदा राजा यदा स्थानभृष्टो भवति तदा नष्टवीर्यः स्यात् । तथा च शुक्रः-- शृगालतां समभ्येति यथा सिंहो वनच्युतः। स्थानभ्रष्टो नृपोऽप्येवं लघुतामेति सर्वतः ॥ १॥ अथ संघातस्य माहात्म्यमाह नास्ति संघातस्य निःसारता किन्न स्खलयति मत्तमपि वारणं कृथिततृणसंघातः ॥ ३७॥ टीका-नास्ति न विद्यते। काऽसौ ? निःसारता दुर्बलत्वं । कस्य ? संघातस्य । केन दृष्टान्तेन ? यतः किन्न स्खलयति किन्न गतिभंगान्वितं Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466