________________
३००
नीतिवाक्यामृते
अथ नीवीविनाशेषु यत्कर्तव्यं तदाह -
नीवीविनाशेषु विवादः पुरुषप्रामाण्यात्सत्यापयितव्यो दिव्यक्रियया वा ॥ १४ ॥
टीका-नीवी निक्षेपो यदि कदाचित्केनचिन्नीवी कस्यापि समर्पिता सा यदि नश्यति तदा पुरुषप्रमाणता भवति । न किंचिद्वक्तव्यं प्रमाण पुरुषः न किंचिद्विरुद्धं यनः ( तः ) करोति । अथवा पुरुषं प्रमाणतो न भवति तत्सत्यापयितव्यः स सत्यः कार्यः । कया ? दिव्यक्रियया दिव्यदानेन । तथा च नारदः
निक्षेपो यदि नष्टः स्यात्प्रमाणः पुरुषार्पितः ।
तत्प्रमाणं स कार्थो यदिव्ये ? तं वा नियोजयेत् ॥ १॥ अथ साक्षिस्वरूपमाह- .
यादृशे तादृशे वा साक्षिणि नास्ति दैवी क्रिया किं पुनरुभयसम्मते मनुष्ये नीचेऽपि ॥ १५ ॥
टीका-नीचेऽपि साक्षिणि नास्ति न विद्यते । कासौ ? क्रिया। किंविशिष्टा ? दैवी दिव्यलक्षणा किं पुनरुभयसम्मते द्वाभ्यामपि वादिभ्यां मनुष्ये सम्प्रत्ययकारके । तथा च भार्गव:---
अधर्मापि भवेत्साक्षी विवादे पर्यवस्थिते ।
तथा दैवी क्रिया न स्यात् किं पुनः पुरुषोत्तमे ॥१॥ अथ ( यः ) परद्रव्यमभियुंजीताभिलुम्पते वा तस्य यद्भवति तदाह
यः परद्रव्यमभियुञ्जीताभिलुम्पते वा तस्य शपथः क्रोशो दिव्यं वा ॥ १६॥ __टीका-य: परद्रव्यमभियुंजीत न गृहीतमं? न ( ? ) विलुपते तस्य तावत् हीनेन शपथः क्रोशो न कार्यः दिव्यं ग्राह्यमिति । तथा च गर्गः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org