SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३०० नीतिवाक्यामृते अथ नीवीविनाशेषु यत्कर्तव्यं तदाह - नीवीविनाशेषु विवादः पुरुषप्रामाण्यात्सत्यापयितव्यो दिव्यक्रियया वा ॥ १४ ॥ टीका-नीवी निक्षेपो यदि कदाचित्केनचिन्नीवी कस्यापि समर्पिता सा यदि नश्यति तदा पुरुषप्रमाणता भवति । न किंचिद्वक्तव्यं प्रमाण पुरुषः न किंचिद्विरुद्धं यनः ( तः ) करोति । अथवा पुरुषं प्रमाणतो न भवति तत्सत्यापयितव्यः स सत्यः कार्यः । कया ? दिव्यक्रियया दिव्यदानेन । तथा च नारदः निक्षेपो यदि नष्टः स्यात्प्रमाणः पुरुषार्पितः । तत्प्रमाणं स कार्थो यदिव्ये ? तं वा नियोजयेत् ॥ १॥ अथ साक्षिस्वरूपमाह- . यादृशे तादृशे वा साक्षिणि नास्ति दैवी क्रिया किं पुनरुभयसम्मते मनुष्ये नीचेऽपि ॥ १५ ॥ टीका-नीचेऽपि साक्षिणि नास्ति न विद्यते । कासौ ? क्रिया। किंविशिष्टा ? दैवी दिव्यलक्षणा किं पुनरुभयसम्मते द्वाभ्यामपि वादिभ्यां मनुष्ये सम्प्रत्ययकारके । तथा च भार्गव:--- अधर्मापि भवेत्साक्षी विवादे पर्यवस्थिते । तथा दैवी क्रिया न स्यात् किं पुनः पुरुषोत्तमे ॥१॥ अथ ( यः ) परद्रव्यमभियुंजीताभिलुम्पते वा तस्य यद्भवति तदाह यः परद्रव्यमभियुञ्जीताभिलुम्पते वा तस्य शपथः क्रोशो दिव्यं वा ॥ १६॥ __टीका-य: परद्रव्यमभियुंजीत न गृहीतमं? न ( ? ) विलुपते तस्य तावत् हीनेन शपथः क्रोशो न कार्यः दिव्यं ग्राह्यमिति । तथा च गर्गः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy