SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ विवादसमुद्देशः। २९९ बलात्कारेण या भुक्तिः साक्रोशाः साक्षिणोऽत्र ये। शासनं कूटलिखितमप्रमाणानि त्रीण्यपि ॥१॥ अथान्यदपि प्रमाणं यन्न भवति तदाहबलात्कृतमन्यायकृतं राजोपधिकृतं च न प्रमाणं ॥ ११ ॥ टीका--अथान्यान्यपि त्रीण्यतानि यबलात्कारेणं क्रियते तथाऽन्यायेन क्रियते तथा राजोपधिना राजबलेन क्रियते तदप्रमाणं । तथा च भागुरिः-- बलात्कारेण यत्कुर्युः सभ्याश्चान्यायतस्तथा। राजोपधिकृतं यच्च तत्प्रमाणं भवेन्न हि ॥१॥ अथ यत्प्रमाणं भवति तदाहवेश्याकितवयोरुक्तं ग्रहणानुसारितया प्रमाणयितव्यं ॥१२॥ टीका-तथा चूतकारसम्बधि यद्भवति तदपि ग्रहणानुसारेणैतद्भवति । यदि वेश्याग्रहणकं स्वल्पमूल्यकं भवति गृहीतं बहूनि दिनानि कामुकेन सेवितो तत्तावन्मात्रं मूल्यं लभते ततो नान्यदाधिकं । तथा द्यूतकारेणापि यदि स्वल्पमूल्यं ग्रहणं प्रभूतं हारितं, तत्सहिको ग्रहणादधिको ग्रहणादधिकं मूल्यं न लभते । तथा च रेभ्यः यो वेश्या बन्धकं प्राप्य लघुमात्रं बहु व्रजेत् । सहिको द्यूतकारश्च हतौ द्वावपि ते तनौ ॥१॥ अथ विवादो यथा न भवति तदाहअसत्यङ्कारे व्यवहारे नास्ति विवादः ॥ १३ ॥ टीका-यो व्यवहारो वादिनामसत्यंकारः सत्यकाररहितः तत्र विवादो न भवति । तथा च ऋषिपुत्रक: असत्यंकारसंयुक्तो व्यवहारो नराधिप ।। विवादो वादिना तत्र नैव युक्तः कथंचन ?॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy