SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ २९८ नीतिवाक्यामृते मुपलभते परं द्वितीयं वादिनं । तथा यथार्थवादेऽपि विद्वेष्टि सभां सभ्यैः सत्येऽपि प्रोक्ते दूषयति, कां ? सभां । अथ यथार्थहानिर्भवति सभायां तथाह छलेनाप्रतिभासेन वचनाकौशलेन चार्थहानिः ॥ ८ ॥ टीकायान्यत्स्वार्थनां सा बलवत्तथाभासेन बलात्कारेण न क्रियते (?) तथा वचनाकौशलेन क्रियते । एतैस्त्रिविधैः पदार्थैः सभ्यो वादिनामर्थनाशं करोति ते सभ्या न भवन्ति परिपन्थिनस्ते । तथा च भारद्वाज: w ----- छलेनापि बलेनापि वचनेन सभासदः । वादिनः स्वार्थहानिं ये प्रकुर्वन्ति च तेऽधमाः ॥ १ ॥ अथा वादिनां वादे यत्प्रमाणं भवति तदाहभुक्तिः साक्षी शासनं प्रमाणं ॥ ९ ॥ तथा च जैमिनि:— संवादेषु च सर्वेषु शासनं भुक्तिरुच्यते । भुक्तेरनन्तरं साक्षी तदभावे च शासनम् ॥१॥ मुक्तिसाक्षिशासनानां यथा प्रमाणता भवति तथाह , भुक्तिः सापवादा, साक्रोशाः साक्षिणः शासनं च कूटलिखितमिति न विवादं समापयन्ति ॥ १० ॥ टीका - एते त्रयः पदार्था न विवादं समापयन्ति न विवादं नाशयन्ति वृद्धिं नयन्ति । एका तावद्भुक्तिः सापवादा बलात्कारेण गृहीता यदि भवति । तथा साक्षिणः साक्रोशाः कृतपै ( वै ) रापवादिनः । तथा शासनं यदि कूटलिखितं भवति तदा त्रीण्येतानि विवादं वृद्धिं नयन्ति । तथा च रैभ्यः । -- १ चार्थ हानिः पाठोऽयं पुस्तकें नास्तिः । २ द्वादश संवत्सरात्मिका । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy