SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ विवादसमुद्देशः। २९७ तत्रालं विवादेन यत्र स्वयमेव सभापतिः प्रत्यर्थी सभ्यसभापत्योरसांमञ्जस्येन कुतो जयः किं बहुभिश्छगलैः श्वा न क्रियते ॥६॥ टीका–अलं पर्याप्तं । केन ? विवादेन । क ? तत्र तस्यां सभायां । यस्यां किं ? यस्यां सभापती राजा स्वयमेव प्रत्यर्थी प्रतिवादी भवति तत्र सभ्यैः सहासांमञ्जस्यं भवति सभ्यानां भूपतिना सह कुतो जयो वादार्थमुपगतानां । यद्राजा वदति तदन्येऽपि बहवो वदन्ति ततो न्यायोऽपि तस्यान्यायो भवतिः कथं न्यायः, अन्यायः सञ्जायते । यच्च किं बहुभिश्छगैलैः सारमेयो न क्रियते । तथा च शुक्रः प्रत्यर्थी यत्र भूपः स्यात् तत्र वादं न कारयेत् । यतो भूमिपतेः पक्षं सर्वे प्रोचुस्तथानुगाः ॥ १॥ अथ विवादिनो लक्षणमाह विवादमास्थाय यः सभायां नोपतिष्ठेत, समाहूतोऽपसरति, पूर्वोक्तमुत्तरोक्तेन बाधते, निरुत्तरः पूर्वोक्तेषु युक्तेषु युक्तमुक्तं न प्रतिपद्यते, स्वदोषमनुवृत्य परदोषमुपालभते, यथार्थवादेऽपि द्वेष्टि सभामिति पराजितलिङ्गानि ॥ ७ ॥ टीका-पराजितस्यासत्यवादार्थिनो भवन्ति चिन्हानि। विवादमास्थाय विवादं निरूपयित्वा यः सभायां नोपतिष्ठते नागच्छति । तथा समाहूतोऽपसरति, समाहूत आकारितः, कैः ? सभ्यः अपसरति नागच्छति । तथा पूर्वोक्तमुत्तरोक्तेन बाधते, तेन विवादिना सभ्यानां पुरतो यदुक्तं तदुत्तरोक्तेन पाश्चात्यवचनेन बाधतेऽन्यथा वदति । तथा निरुत्तरः पूर्वोक्तेषु वचनेषु, सभ्यैः पृष्ठो निरुत्तरो भवति । तथा स्वदोषमनुवृत्य परदोष १ अस्मादारभ्यागेतनोंशः पुस्तके न वर्तते । २ ' बहुभिछगलोजः ' पुस्तके पाठः । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy