SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ २९६ नीतिवाक्यामृते अथ भूयोऽपि सभ्यानां स्वरूपमाहअदृष्टाश्रुतव्यवहाराः परिपन्थिनः सामिषा न सभ्याः ॥ ४ ॥ टीका--- ये सभ्या अदृष्टाश्रुतव्यवहारा भवन्ति । यैः सभ्यैः स्मृत्युक्तो व्यवहारो दृष्टो न भवति न च श्रुतः ते सभ्या न भवन्ति राज्ञः परिपन्थिनः शत्रवस्ते यतो मूर्खत्वेन धर्माधिकरणं भवति सत्यानां प्रसादपरा भवन्ति, सभ्यानां निग्रहं कुर्युः ततो राष्ट्रशून्यता भवति । सचिवा अप्येवंविधा भवन्ति सामिषान्तरं योऽन्वेषयन्ति वादिनो भवन्ति ते परिपंथिनः । तथा च शुक्रः ---- न दृष्टो न श्रुतो वापि व्यवहारः सभासदैः ? | न ते सभ्यांरयस्ते च विज्ञेयाः पृथिवीपतेः ॥ १ ॥ अथ भूयोऽपि सभ्यानां स्वरूपमाह लोभपक्षपाताभ्यामयथार्थवादिनः सभ्याः सभापतेः सद्यो मानार्थहानिं लभेरन् ॥ ५ ॥ टीका — प्राप्नुयुः, के ते ? सभ्याः । कां ? मानार्थहानिं । कस्य ! सभापते राज्ञः । किंविशिष्टाः ? सभ्या अयथार्थवादिन यथोचिताजल्पका ये राज्ञो मानार्थहानिं सद्यस्तस्करा एव कुर्वन्ति । तथा च गर्ग: अयथार्थप्रवक्तारः सभ्या यस्य महीपतेः । मानार्थ हानिं कुर्वन्ति तस्य सद्यो न संशयः ॥ १ ॥ अथ यत्र सभापतिः स्वयमेव प्रत्यर्थी भवति तत्र विवादार्थिना यत्कर्तव्यं तदाह Jain Education International ―――― १ असभ्यानां इति भाव्यं । २ सभ्याः अरयः इति च्छेदः ससंहितोऽयं पाठो विस्मयकरः । For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy