________________
२७ विवाद- समुद्देशः ।
अथ विवादसमुद्देशो लिख्यते । तत्रादावेव राज्ञः स्वरूपमाह - गुणदोषयोस्तुलादण्डसमो राजा स्वगुणदोषाभ्यां जन्तुषु गौरवलाघवे ॥ १ ॥
टीका - योऽसौ राजा । स किंविशिष्ट: ? तुलादण्डसम : ? । काभ्यां ? स्वगुणदोषाभ्यां । कयोः ? गुणदोषयोः । केषु ? जन्तुषु । कस्मिन् ? गौरवलाघवे । यस्य गुणा अधिकास्तस्य गुरुत्वं । यस्य दोषा अधिकास्तस्य लघुत्वं कर्तव्यं ।
अथ समवर्तिनो भूपस्य यद्भवति तदाह -
राजा त्वपराधालिंगितानां समवर्ती तत्फलमनुभावयति ॥ २ ॥ टीका -- यो राजा भवति समवर्ती भूत्वा तेषामपराधालिंगितानां यत्फलं सम्बन्धः तत्स्वयमेव संभावयति चिन्तयति । तथा च गुरुः-विजानीयात् स्वयं वाथ भूमुजा अपराधिनाम् । मृषा किं वाथवा सत्यं स्वराष्ट्रपरिवृद्धये ॥ १ ॥ अथ सभ्यानां स्वरूपमाह - आदित्यवद्यथावस्थितार्थप्रकाशनप्रतिभाः सभ्याः ॥ ३ ॥ टीका- राज्ञो ये सभ्याः सभासदो भवन्ति । ते किंविशिष्टा: ? आदित्यवद्यथार्थप्रकाशनप्रतिभा यथादित्यो यथावस्थितार्थप्रकाशनप्रतिभो भवति तथा सभ्यैरपि सर्वव्यावहारिकपदार्थप्रयोजनपरैर्भाव्यं । तथा च गुरुः - यथादित्योऽपि सर्वार्थान् प्रकटान् प्रकरोति च । तथा च व्यवहारार्थान् ज्ञेयांस्तेऽमी सभासदः ॥ १ ॥
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only