SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ २९४ नीतिवाक्यामृते www.rmermommmmmm बलवन्तमाश्रित्य विकृतिभंजनं सद्यो मरणकारणं ॥ ६४ ॥ टीका-विशेषाकृतिविकृतिर्भक्तिलक्षणा तस्या यो भंगोऽभक्तिलक्षणः स सद्यो मरणं तत्क्षणात्करोति । तथा च जौमिनिः भक्त्या संसेव्यमानस्य बलवन्तस्य ? कारणं । अभक्तिः स्तोकामयाति ? करोति मरणं ध्रुवं ॥१॥ अथ प्रवासस्य स्वरूपमाहप्रवासः चक्रवर्तिनामपि सन्तापयन्ति किं पुनर्नान्यं ॥६५॥ टीका--प्रवासो देशान्तरगमनं सन्तापयन्ति सुदुःखं करोति । के ? चक्रवर्तिनमपि सर्वकामस्मृद्धमपि किं पुनरन्यं सामान्यं अल्पपाथेयं स्तोकसंबलं । तथा च चारायणः प्रवासे सीदति प्रायश्चक्रवर्त्यपि यो भवेत् । किं पुनर्यस्य पाथेयं स्वल्पं भवति गच्छतः॥१॥ अथ प्रवासो यथा सुखेन नीयते तदाहबहुपाथेयं मनोनुकूलः परिजनः सुविहितचोपस्करः प्रवासे दुःखोत्तरणतरण्डको वर्गः ॥६६॥ टीका-प्रवासे देशान्तरगमने एतेषां पदार्थानां योऽसौ वर्गः संघातः । किंविशिष्टः स्यात् ? दुःखोत्तरणतरण्डकः सर्वदुःखानां तरणे लंघने यानपात्रं अधिकं तावत्संबलं भवति । तथा योऽपि परिजनः परिग्रहो मनोनुकूलो भवति । तथा सुविहितोपस्कर उपस्करशब्देन प्रवाससामग्री सर्वान्नाहिका (१) कथ्यते सा च सुविहिता भवति। एतेषां सामग्री सकला चैव प्रवासे [स] सुखं ददेत् । इति व्यवहारसमुद्देशः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy