SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ व्यवहारसमुद्देशः। २९३ टीका-यत्र यस्मिन् लेखेऽभिज्ञानं किंचिन्न भवति स लेख: प्रतिष्टां न प्राप्नोति यतो धूर्तजनाः कूटलेखं लेखयन्ति । तथा च शुक्रः-- कूटलेखप्रपंचेन धूतैरार्यतमा नराः। लेखार्थो नैव कर्तव्यः साभिज्ञानं विना बुधैः ॥१॥ अथ यानि पातकानि सद्यः फलन्ति तान्याह त्रीणि पातकानि सद्यः फलन्ति स्वामिद्रोहः स्त्रीवधो बालवधश्चेति ॥ ६२॥ टीका-सद्यः फलं इह लोकेऽपि फलन्ति फलं प्रयच्छन्ति । कानि ? पातकानि । किंविशिष्टानि ? कृतानि । कतिसंख्यानि ? त्रीणि । एकस्ता - वत्स्वामिवधः । द्वितीयः स्त्रीवधः । तृतीयो बालवधः । तथा च नारदः-- स्वामिस्त्रीबालहंतृणां सद्यः फलति पातकं । इह लोकेऽपि तद्वंञ्च तत्परत्रोपभुज्यते ॥१॥ अथ दुर्बलस्य बलवता सह विग्रहे यद्भवति तदाह अप्लवस्य समुद्रावगाहनमिवाबलस्य बलवता सह विग्रहाय टिरिटिल्लितं ॥ ६३ ॥ टीका-अतश्च क्षणमात्रं युद्धं कृत्वा पश्चान्नाशमुपयाति । एतदुक्त भवति, यः समुद्रं बाहुभ्यां तरति सह क्षणमेकं टिरिटिल्लितं करोति कोऽर्थः क्षणेन जलादंधं (?) निःसारयति ततश्च क्षणेन म्रियते। तथा च गुरु:-- बलिना सह युद्धं यः प्रकराति सुदुर्बलः। क्षणं कृत्वात्मनः शक्त्या युद्धं तस्य विनाशनात् ॥१॥ अथ बलवन्तमाश्रित्य यो विकृतिभजनं करोति तस्य यत्सद्यो भवति तदाह १ विनाशनम् इति सुभाति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy