SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ २९२ नीतिवाक्यामृते . . . . ................................................। .................... ॥१॥ किं तेनात्मनः प्रियेण यस्य न भवति स्वयं प्रियः ॥५८॥ टीका-किं तेन मानुषेण वलभेन भवति यस्य स्वयं वल्लभः स्यात् । एतदुक्तं भवति, यन्मानुषं वल्लभं भवति तस्य यदि न भवति तत्प्रियमप्यप्रियं । तथा च राजपुत्रः वल्लभस्य न यो भूयो वल्लभः स्याद्विशेषतः। स वल्लभः परिशेयो योऽन्यो वैरी स उच्यते ॥१॥ अथ प्रभोर्दूषणमाहस किं प्रभुर्यो न सहते परिजनसम्बाधम् ॥ ५९॥ टीका-परिजनस्य परिग्रहस्य सम्बाधं व्ययोपद्रवं न सहते विरूपं कृत्वा मन्यते स किं प्रभुः स्वामी न भवति स परिचितमात्रो ज्ञेयः । तथा च गौतमः भृत्यवर्गार्थजे जाते योऽन्यथा कुरुते प्रभुः। स स्वामी न परिक्षय उदासीनः स उच्यते ॥१॥ अथ लेखस्य स्वरूपमाहन लेखाद्वचनं प्रमाणं ॥ ६०॥ टीका-यदि कश्चिल्लेखं गृहीत्वा कस्यापि पाश्र्थात् कार्यार्थी लेखे लिखिते यद्वदति तत्साक्षादप्रमाणं यतो लोकोक्तिरेव, न " लेखाद्वाचिकं प्रमाणमिति " | तथा च राजपुत्रः-- लिखिताद्वाचिकं नैव प्रतिष्ठां याति कस्यचित् । वृहस्यतेरपि प्रायः किं तेन स्यापि ? कस्यचित् ॥१॥ अथ लेखस्यापि यथा प्रतिष्ठा न भवति तदाहअनभिज्ञाते लेखेऽपि नास्ति सम्प्रत्ययः ॥ ६१॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy