SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ व्यवहारसमुद्देशः। २९१ अथ सौजन्यस्य माहात्म्यमाह-- तत्सौजन्यं यत्र नास्ति परोद्वेगः ॥ ५४॥ टीका--तत्सौजन्यं सुजनता यत्र परस्य चिदुद्वेगो न भवति तस्य चष्टितेनापि सर्वो जनः सानन्दो भवति नोद्वेगं करोति । तथा च वादरायणः यस्य कृत्येन कृत्स्नेन सानन्दः स्याजनोऽखिलः । सौजन्यं तस्य तज्ज्ञेयं विपरीतमतोन्यथा ॥१॥ अथ धीरत्वस्य माहात्म्यमाहतद्धीरत्वं यत्र यौवनेनानपवादः ॥ ५५ ॥ टीका-पुरुषाणां सदीरत्वं कथ्यते येषां यौवनेन पारदारिकोऽनपवादो भवति न युद्धे धीरत्वं । तथा च शौनकः परदारादिदोषेण रहितं यस्य यौवनं । प्रयाति वा पुमान् धीरो न धीरो युद्धकर्मणि ॥१॥ अथ सौभाग्यस्वरूपमाहतत्सौभाग्यं यत्रादानेन वशीकरणं ॥ ५६ ॥ टीका-तज्जनानां सौभाग्यं कथ्यते यत्रादानेन वशीकरणं न किंचिदपि दीयते सर्वोपि जनो वशगो भवति । तथा च गौतमः दानहीनोऽपि वशगो जनो यस्य प्रजायते। सुभगः स परिशेयो न यो दानादिभिर्नरः॥१॥ अथ सभाया दूषणमाहसा सभारण्यानी यस्यां न संति विद्वांसः ॥ ५७ ॥ टीका-यस्यां राज्ञो विद्वांसः पंडिता न स्युः सा सभारण्यानी अटवी विज्ञेया न सा राजसभा । तथा च व्यासः -- .. १ छिन्नोऽग्रेतनः पाठः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy