SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २९० नीतिवाक्यामृते सा तीर्थयात्रा यस्यामकृत्य निवृत्तिः ॥ ५० ॥ टीका- -यत्र यस्यां तीर्थयात्रायां गतैरकृत्यं पापं न क्रियते सा तीर्थयात्रा कथ्यते यस्यां तु ( पापं ) क्रियते सा नरकयात्रा । तथा च पुरोक्तं अन्यत्र यत्कृतं पापं तीर्थस्थाने प्रयाति तत् । क्रियते तीर्थगैर्यच्च वज्रलेपं तु जायते ॥ १ ॥ अथ पंडितस्य माहात्म्यमाह - तत्पाण्डित्यं यत्र वयोविद्योचितमनुष्ठानम् ॥ ५१ ॥ टीका -- तत्पाण्डित्यं विचक्षणता यत्र वयस उचितं योग्यमनुष्ठानं समाचारलक्षणं तथा विद्यायाश्च । तथा च गुरुः विद्याया वयसश्चापि या योग्या क्रिया इह । तथा वेषश्च योग्यः स्यात् स ज्ञेयः पण्डितो जनैः ॥ १ ॥ अथ चातुर्यस्वरूपमाह- तच्चातुर्यं यत्परप्रीत्या खकार्यसाधनम् ॥ ५२ ॥ टीका - परस्य पार्वात्प्रीतिं कृत्वा यत्कृत्यं साध्यते तच्चातुर्य दक्षता । यत्पुनरुपप्रदानभेददण्डैः साध्यते सा चतुरता न भवति । तथा च शुक्रः यः शास्त्रात्साधयेत्कार्य चतुरः स प्रकीर्तितः । साधयन्ति भेदाद्यैर्ये ते मतिवर्जिताः ॥ १ अथ लोकोचितस्य कृत्यस्य स्वरूपमाह - तल्लोको चितत्वं यत्सर्वजनादेयत्वम् || ५३ | टीका - तल्लोकोचितत्वं लोकस्य योग्यं कर्म यत्सर्वजनादेयत्वं सर्व जनं साभिलाषं करोति । तथा च वादरायणः - तस्योचितं य... यत्कृत्यं नापरं स्मृतं । साभिलाषं न कुर्वन्ति यस्य सर्वे जना इह ॥ १ ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy