________________
व्यवहारसमुद्देशः ।
२८९
ओपः स्वभावतो मेध्याः किं पुनर्वन्हिसंयुताः। तस्मात्सन्तस्तदिच्छन्ति स्नानमुष्णेन वारिणा ॥१॥ अथ उत्सवस्य लक्षणमाहस एवोत्सवो यत्र वन्दिमोक्षो दीनोद्धरणं च ॥४७॥ टीका-उत्सवो वपनलक्षणः स एव कथ्यते यत्र वन्दिमोक्षः क्रियते तथा दीनानामनाथानामुद्धरणं पोषणं क्रियते स पुत्रसंभवादधिकः । तथा च चारायणः
स एव पुत्रलाभो यवापरः..................। मन्यते मुच्यते यत्र पंच दीनान् समुद्धरेत् ॥ १ ॥ अथ पर्वणां माहात्म्यमाहतानि पर्वाणि येष्वतिथिपरिजनयोः प्रकामं सन्तर्पणं ॥४८॥
टीका-सन्तर्पणं, संक्रान्तौ व्यतीपातादीनि तान्येव पर्वाणि ज्ञेयानि येष्वतिथिपरिजनयोस्तर्पणं दानं दीयते, परिजनस्य गृहस्य । तथा च भारद्वाजः--
अतिथिः पूज्यते यत्र पोषयत्स्वपरिग्रहं । तस्मिन्नहनि सर्वाणि पर्वाणि मनुरब्रवीत् ॥१॥ अथ तिथीनां माहात्म्यमाहतास्तिथयो यासु नाधर्माचरणं ॥ ४९॥ टीका-विंशत्तिथीनां मध्ये तास्तिथयो गण्यन्ते यास्वधर्माचरणं न क्रियते किन्तु धर्म एव क्रियते । तथा च जैमिनि:
यासु न क्रियते पापं ता एव तिथयः स्मृताः।
शेषा बंध्यास्तु विज्ञेया इत्येवं मनुरब्रवीत् ॥ १॥ अथ तीर्थ यात्रामाहात्म्यमाह
१ श्लोकोऽयं मनुस्मृतौ नास्ति ।
नीति०-१९ Jain Education International For Private & Personal Use Only
www.jainelibrary.org