SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ २८८ नीतिवाक्यामृते RA/VVVVvvvvvv टीका-अधिको भवति गुणहीनेऽपि धनिनः ईश्वरस्य । कोऽसौ ? सर्वोऽपि लोकः । एतदुक्तं भवति, किं तद्यस्या विद्यमाना गुणा वामित्वं () । तथा च वल्लभदेवः न त्वया सदृशो दाता कुलीनो न च रूपवान् । कुलीनोऽपि विरूपोऽपि गीयते च धनार्थिभिः ॥१॥ अथ भूयोऽपि धनिनो यद्भवति तदाहधनिनो यतयोपि चाटुकाराः ॥४४॥ टीका--यः पुमान् धनी तस्य यतयोऽपि सन्यस्ता अपि भवन्ति । किंविशिष्टा भवन्ति ? चाटुकारा आस्तां तावदन्ये तेऽपि चाटूनि कुर्वन्ति भवत्येतत् । उक्तं च यतो वल्लभदेवेनयस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान् गुणज्ञः । स एव वक्ता स च दर्शनीयः सर्वे गुणाः कांचनमाश्रयन्ति ॥१॥ अथ सर्वेषां पदार्थानां मध्ये यत्पवित्रं तदाहन रत्नहिरण्यपूताजलात्परं पावनमस्ति ॥ ४५ ॥ टीका-नास्ति न विद्यते । किं तत् ? अपरं द्वितीयं पावनं पवित्रं । कस्माजलात्तोयात् । किंविशिष्टात् ? रत्नहरण्यपूतात् रत्नं मरकतादि हिरण्यं मुवर्ण ताभ्यां य पूतं पवित्रं कृतं जलं तस्मात् , अपरं न हि पवित्रं विद्यते लोके स्नानं तेन ततः शुभं । अथोदकमाहस्वयं मेध्या आपो वन्हितप्ता विशेषतः ॥ ४६॥ टीका-एता या आपः सलिलानि तानि स्वयमेव पवित्राणि किं पुनर्वन्हितप्तानि विशेषतो मेध्यानि भवन्ति । तथा च मनुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy