________________
व्यवहारसमुद्देशः ।
२८७
टीका
स्वल्पतरोऽर्थो यासां ता अर्थवत्यो विलासिन्यः । तासां
प्रत्ययः तदिच्छानुवर्तनं । इच्छापूरणं ( न ) स्यात्तदासक्त्या वित्तार्थे धनिनां दैन्यं करोतीति । तथा च दन्तिल:
यदिच्छा पूरिता नैव पण्यस्त्रीणां समुद्भवा । तदा दैन्यं समासाद्य रोचते.....हि तत् ॥ १ ॥
अथ ये पदार्थाः पुरुषमलकृतां नयंति तानाह
प्रावरणं कम्बलो जीवनं गर्दभः परिग्रहो वोढा दारगृहे यस्य सर्वकर्माणश्चासदो... ..11 88 11
w
टीका..
अथ सर्वेषां पदार्थानां येनातिलघुः पुमान् भवति तदाहन दारिद्रयात्परं पुरुषस्य लाञ्छनमस्ति यत्संगेन सर्वे गुणा निष्फलतां यान्ति ॥ ४२ ॥
टीका - नास्ति न विद्यते । किं तल्लाघवं । किंविशिष्टं ? परं प्रधानं । कस्मात् ? दारिद्र्यात् । यतः कारणात्तेन विद्यमानेन सर्वे गुणा निष्फला भवन्ति ।
उपकारपरो याति निर्द्धनः कस्यचिद्गृहे ।
पारयिष्यति मात्रेण गुणाढ्यो समते गृही ? ॥ १ ॥
अथाधनास्यापि धनमतेर्यद्भवति तदाहअलब्धार्थोपि लोको धनिनो भाण्डो भवति ॥ ४३ ॥
१ आस्तरणो कम्बलं जीवधनं गर्दभः परिग्रहो वोढा सर्वकर्माणश्च भृत्याः इति कस्य नाम सुखावहानि इति मूलपुस्तकस्थं सूत्रं । टीका - पुस्तके तु सूत्रं व्याख्या चोभयमपि च्छिन्नम् । उद्धृतांशमपि सूत्रस्य प्रायोऽशुद्धम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org