SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ नीतिवाक्यामृते अथ लोकस्य चौर्यरतस्य स्वरूपमाह - अहो लोकस्य पापं यन्निजस्त्री रतरतापि निम्बसमा परगृहीता शुनिकापि भवति रम्भासमा ॥ ३७ ॥ टीका - अहो आश्वर्ये लोकस्य पापं जानानः, किं पापमित्याह - या निजभार्या रतरता सुरता गुर्विणी च निम्बसमा कटुका मन्यते । या पुनः परगृहीता अन्यभार्या शुनिकापि निकृष्टापि रम्भासमा स्वर्गविलासनीव मन्यते । तथा च वराहमिहिरः २८६ मांडव्यगिरिं श्रुत्वा मदीया वेगाथवा मेवं साध्वीन पुंसु श्रिया यथा स्याज्जघनचपला ? ॥ १ ॥ अथ यस्य एका स्त्री तस्य यद्भवति तदाह स सुखी यस्य एक एव दारपरिग्रहः || ३८ ॥ टीका - स पुरुष: सुखी भवति, यस्य किं ? यस्य एक एव दारपरिग्रहो द्वितीया भार्या न भवति । तथा च चाणिक्य: - अपि साधुजनोत्पन्ने द्वे भायें यत्र संस्थिते । कलहस्तत्र नो याति गृहाच्चैव कदाचन ॥ १ ॥ एका भार्या त्रयो पुत्रा द्वौ हलौ दश धेनवः । द्रम्मापंचसहस्राणि दातव्यं भगवन्निदम् ॥ २ ॥ अग्निहोत्रं गृहे यस्य तस्य मर्त्योऽपि नाकभूः ॥ ३ ॥ अथ व्यसनिनो यथा सुखं भवति तदाह w व्यसनिनो यथासुखमभिसारिकासु न तथार्थवतीषु ॥ ३९ ॥ टीका तासां स्वामिनीषु प्रभूतव्ययात् । तथा च दन्तिल: Jain Education International अल्पवित्तस्य यः कामः प्रचुरः स सुखप्रदः । याति संस्ते (से) विता नैव...... यावस्थं ति बहु ? ॥ १ ॥ अथार्थवतीनां दूषणमाह महान् धनव्ययस्तदिच्छानुवर्तनं दैन्यं चार्थवतीषु ॥ ४० ॥ www.jainelibrary.org For Private & Personal Use Only
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy