________________
व्यवहारसमुद्देशः।
२८५
उपाश्रुतिं श्रोतुमिव कार्यवशात्रीचमपि स्वयमुपसर्पेत् ॥३४॥ टीका-~~~-उपसर्पेत् गच्छेत् । कं ? नीचमपि अगम्यं । कस्मात् ? (कार्य वशात् )। किं कर्तुं ? श्रोतुं । कामिव ? उपश्रुतिमिव शकुनिशब्दमिव । यथा प्रयोजने जाते शकुनशब्दः श्रोतव्यः सद्योऽभीष्टो भवति तत्कार्य कर्तव्यं, अथवा न प्रतिभासते तत्त्याज्यं एवं नीचस्यापि समीपं गत्त्वा तद्वचः श्रोतव्यं यद्यनुकूलं भवति तदा कार्यमथवा त्याज्यं । तथा च गुरु:
अपि नीचोऽपि गन्तव्यः कार्ये महति संस्थिते । __ यदि स्यात्तद्वचो भद्रं तत्कार्यमथवा त्यजेत् ॥१॥ कार्यार्थी दोषं न पश्यतीति वचनात् । अथ वेश्यायां गृहागतायां यद्भवति तदाहवेश्यागमो गृहिणी गृहपति वा प्रत्यवसादयति ॥ ३५॥ टीका-यत्र गृहे वेश्यागमो भवति वेश्या प्रविशति तत्र सा प्रविष्टा गृहिणी तावत्प्रत्यवसादयति नाशं नयति । पश्चाद्गृहपतिं च येनानीता गृहेऽसद्वययेन नाशयति । तथा च शुक्रः
वेश्यारागो गृहस्थस्य गृहिणी नाशयेत्तुरः । असद्वययेन पश्चाच्च येनानीता तद (म) प्यहो॥१॥ अथ भूयोऽपि वेश्यासंग्रहेण यद्भवति तदाहवेश्यासंग्रहो देवद्विजगृहिणीबन्धूनामुच्चाटनमंत्रः ॥ ३६॥
टीका-यौऽसौ वेश्यासंग्रहः । स पुरुषस्य किंविशिष्टः ? उच्चाटनमंत्रः कार्मणलक्षणः । केषां ? देवद्विजगृहिणीबन्धूनां । तस्माद्विवेकिना वेश्यासंग्रहो न कर्तव्यः । तथा च गुरु:
न वेश्या चिन्तयेत्युंसां किमप्यस्ति च मन्दिरे । स्वकार्यमेव कुर्वाणा नरः सोऽपि च तद्रसान् (त्)॥१॥ कृत्वा शीलपरित्यागं तस्या वाञ्छां प्रपूरयेत् । ततश्च मुच्यते सर्वैर्भार्याबान्धवपूर्वजैः ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org