SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ विवादसमुद्देशः । अभियुञ्जीत चेन्मर्त्यः परार्थ वा विलुम्पते । शपथस्तस्य कोशो वा योग्यो वा दिव्यमुच्यते ॥ १ ॥ अथाभिचारशुद्धस्य यद्यसिद्धिर्भवति तद्यत्करणीयं तदाहअभिचार योगैर्विशुद्धस्याभियुक्तार्थसम्भावनायां प्राणावशेषोऽपहारः ।। १७ ।। टीका — यदि वादी अभिचारयोगैः कूटप्रयोगैः सिद्धः स्यात् तदाभि-युक्तसंभावनायां प्राणावशेषोऽर्थापहारः कार्यः । एतदुक्तं भवति, तस्य केवलाः प्राणा रक्षणीया विभवश्व सर्व एव भूभुजा ग्राह्यः । तथा च शुक्रः ३०१ यदि वादी प्रबुद्धोपि दिव्याद्यैः कूटजैः कृतैः । पश्चात्तस्य च विज्ञानं सर्वस्वहरणं स्मृतं ॥ १ ॥ अथ येषां दिव्यं न दीयते तानाहलिंगिनास्तिकखाचाराच्युतपतितानां दैवी क्रिया नास्ति । १८ । टीका - नास्ति न विद्यते । कासौ ?- क्रिया । किंविशिष्टा ? दैवीं दिव्यसम्भवा । कथं तर्हि तेषामपवादे संजाते शुद्धिस्तत्रोच्यते ;तेषां युक्तितोऽर्थसिद्धिरसिद्धिर्वा ॥ १९ ॥ टीका - युक्त्या परंपर्यक्रमानुष्ठानं तेषां विज्ञाय ततः शुद्धिर्देया । तथा:च वादरायणः युक्त्या विचिन्त्य सर्वेषां लिंगिनां तपसः क्रियां । देया वचनतया शुद्धिरसंगत्या विवर्जनम् ॥ १ ॥ अथ संदिग्धे पत्रे साक्षे वा यत्रत्यसभ्यैः कार्यं तदाहसंदिग्धे पत्रे साक्षे वा विचार्य परिच्छिन्द्यात् ॥ २० ॥ टीका - परिच्छिन्द्यान्निर्णयो देयः । कैः ? सभ्यैः धर्माधिकारे नियुक्तैः पुरुषैः । कथं ? विचार्य, स्मृत्वा ; (कं ? ) अर्थकूटं पत्रमिदं । अथवा सत्यवादी मिथ्यावादी वा ज्ञात्वा ततस्ताभ्यां दिव्यं देयं । तथा च शुक्रः For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy