SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३०२ नीतिवाक्यामृते vvvvar vvvvvvvv.nrn. संदिग्धे लिखिते जाते साक्ष्ये वाथ सभासदैः । विचार्य निर्णयः कार्यो धर्मो शास्त्रसुनिश्चयः ॥१॥ अथ धर्माधिकरणबाह्यं निर्णयो यथा भवति तदाह परस्परविवादे न युगैरपि विवादसमाप्तिरानन्त्याद्विपरीतप्रत्युक्तीनां ॥ २१ ॥ टीका-तयोर्धर्माधिकरणविवादो ज्ञेयः । परस्परं जल्पमानानां वादिनां पुरतः प्रभूतकालेनापि (न) परिसमाप्तिरिति । तस्माद्धर्माधिकरणैनिवेद्यः ! तथा च ........ धर्माधिकारिभिः प्रोक्तं यो वादं चान्यथा क्रियात् । सर्वस्वहरणं तस्य तथा कार्य महीभुजा ॥१॥ अथान्यदपि व्यवहारस्वरूपमाह ग्रामे पुरेवा वृत्तो व्यवहारस्तस्य विवादे तथा राजानमुपेयात् ॥ २२॥ ____टीका-यो व्यवहारो ग्रामे पुरे वा निवृत्तं कृत्वा तत्सम्बन्धी भूयोऽपि यदि ताभ्यां विवादो भवति तदा राजानमुपेयात् राजाने करणीयं नान्यथा समाप्तिं याति । तथा च गौतमः पुरे वा यदि वा ग्रामे यो विवादस्य निर्णयः । कृतः स्याद्यदि भूयः स्यात्तद्भपाग्रे निवेदयेत् ॥१॥ अथ राज्ञा निर्णीतेऽपि विवादं योऽन्यथा करोति तस्य यद्भवति तदाह राज्ञा दृष्टे व्यवहारे नास्त्यनुबन्धः ॥ २३ ॥ टीका-यो विवादिको राज्ञो मर्यादामतिक्रम्य (मते) सद्यः फलेन दण्डेन हन्तव्यो न विकल्पः कार्यः । यतो राज्ञा निर्णीते भूयोऽपि विवादो नास्ति । तथा च शुक्रः Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy