________________
विवादसमुद्देशः ।
३०३
वादं नृपतिनितिं योऽन्यथा कुरुते हठात् ।
तत्क्षणादेव वध्यः स्यान्न विकल्पं समाचरेत् ॥१॥ अथ दुर्जनानां राज्ञा यत्कर्तव्यं तद्वक्रकाष्ठनिदर्शनेनाह---
न हि दण्डादन्योऽस्ति विनयोपायोनिसंयोग एव वक्र काष्ठं सरलयति ॥ २४॥ ____टीका-दुर्जनानामन्यायवर्तिनां दण्डं मुक्त्वाऽन्यो निग्रहो नास्ति । केन दृष्टान्तेन ? यतः सरलयति ऋजुतां नयति। किं ? वक्र काष्ठं कुटिलं दारु । कोऽसौ ? अग्निसंयोगः । यथा वक्रं काष्टं वन्हियोगात्प्रांजलीभवति एवं पापिलोकोऽपि दण्डेन ऋजुतां याति । तथा च शुक्रः
यथात्र कुटिलं काष्ठं वन्हियोगाद्भवेद्यजुः।
दुर्जनोऽपि तथा दण्डादृजुर्भवति तत्क्षणात् ॥१॥ अथ ऋजुपुरुषस्य यद्भवति तत्सरलवृक्षदृष्टान्तेनाहऋजुं सर्वेऽपि परिभवन्ति न हि तथा वक्रतरुश्छिद्यते यथा सरलः ॥ २५ ॥
टीका-यः पुमान् ऋजुर्भवति तं सर्वेऽपि जनः परिभवन्ति न कुटिलस्वभावं । केन दृष्टान्तेन ? न हि तथा वक्रतरुः सुखेन च्छिद्यते यथा सरलः प्राञ्जल इति । तथा च गुरु:
ऋजुः सर्व च लभते न वक्रोऽथ पराभवं। .
यथां सरलो वृक्षः सुखं छिद्यते छेदकैः ॥ १॥ अथ यथा राज्ञः पुरुषेण गोष्ठयां प्रलापः करणीयस्तथाह
स्वोपालम्भपरिहारेण परमुपालभेत स्वामिनमुत्कर्षयन् गोष्ठीमवतारयेत् ।। २६ ॥
टीका-अवतारयेत् विस्तारयेत् । कां ? गोष्ठी वार्ता । किं कुर्वन् ? उत्कर्षयन् साल्हादं कुर्वन्। कं ? स्वामिनं । केन कृत्वा? स्वोपालम्भपरिहा
१ सप्ताक्षरप्रमितोऽयमार्षप्रयोगः, अथवा यथा च सरलो वृक्ष इत्येवं पठितव्यं ।
Jain Education International
uona!
For Private & Personal Use Only
www.jainelibrary.org