SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३०४ नीतिवाक्यामृते रेण यथात्मन उपालम्भो नागच्छति । तथा परमुपालभेत परस्य स्वरूपं वादविषये निवेदनीयं धर्मस्थानाधिष्ठितपुरुषेणेति । तथा च गौतम :धर्माधिकृतमर्त्येन निवेद्यः स्वामिनोऽखिलः । विवादो न यथा दोषः स्वस्य स्यान्न तु वादिनः ॥ १ ॥ अथ धर्माधिष्ठितेन पुरुषेण वादे यत्कर्तव्यं तदाहन हि भर्तुरभियोगात्परं सत्यमसत्यं वा वदन्तमवगृह्णीयात् ।। २७ ।। टीका —— नावगृह्णीयान्नावदूषयेत् । कं वादिनं । किंविशिष्टं ? सत्यमसत्यं वा वदन्तं । कस्मात् योगात्पक्षपातात् । कस्य ? भर्तुः स्वामिनः । किंविशिष्टं ? वादिनं परमन्यं । कोऽसौ नावगृह्णीयात् राजाधिष्ठितपुरुषः राजाधिष्ठितोऽधिकृतो यः पुरुषो भवति तेन वादविषये पक्षपातो न कर्तव्यः । यथार्थं राज्ञः पुरतो वाच्यं । तथा च भागुरि:ये (यो) न कुर्याद्रणं भूयो न कायस्तेन विग्रहः । विग्रहेण यतो दोषो महतामपि जायते ॥ १ ॥ अथ यः सदा कलहं करोति तदाहअर्थसम्बन्धः सहवासश्च नाकलहः सम्भवति ॥ २८ ॥ 1 टीका – सामस्त्येन न युद्धबाह्यस्तिष्ठति । कोऽसौ अर्थसम्बन्धो द्रव्यव्यवहारः, तथा सहवासश्चैकगृहनिवासश्च । योऽर्थसम्बन्धं करोति तथैकस्मिन् गृहेऽन्येन सह तिष्ठति स युद्धबाह्यं न तिष्ठति । तथा च गुरुःयः कुर्यादर्थसम्बन्धं तथैकगृहसंस्थितिं । तस्य युद्धं विना कालः कथंचिदपि न व्रजेत् ॥ १ ॥ अथ प्राणैः सह यस्य संचितोऽर्थो यो गृहस्थितो यथा तथाहनिधिराकस्मिको वार्थलाभः प्राणैः सह संचितमप्यर्थमप हारयति ।। २९ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy