SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ विवादसमुद्देशः । ३०५ टीका - अपहारयति नाशं नयति । कं ? संचितमर्थे गृहस्थितं वित्तं । कथं ? सह, कैः प्राणैर्जीवितेन । कोऽसौ ? निविर्लब्ध आकस्मिको ऽश्रद्धेयो लाभश्च । तथा निधानलाभे आकस्मिकलाभे च शान्तिकपौष्टिकादिकानि कार्याणि यतः । अथ उत्पातलक्षणमाह ब्राह्मणानां हिरण्ययज्ञोपवीतस्पर्शनं च शपथः ॥ ३० ॥ टीका - ब्राह्मणानां यदि विवादो भवति तदा सुवर्णस्पर्शनं तथा यज्ञोपवीत स्पर्शनं च शपथो नान्यः । तथा च गुरुः हिरण्यस्पर्शनं यच्च ब्रह्मसूत्रस्य चापरं । शपथो ह्येष निर्दिष्टो द्विजातीनां न चापरः ॥ अथ क्षत्रियाणां शपथस्वरूपमाहशस्त्ररत्नभूमिवाहनपल्याणानां तु क्षत्रियाणाम् ॥ ३१ ॥ टीका - क्षत्रियाणां तु पुनः शत्रस्पर्शनं रत्नस्पर्शनं भूमिस्पर्शनं वाहनस्पर्शनं पल्याणस्पर्शनं च पंचभिः स्पृष्टैः शपथो भवति । तथा च गुरुः शस्त्ररत्नक्षमायान्पल्याणस्पर्शनाद्भवेत् । शपथः क्षत्रियाणां च पंचानां च पृथक् पृथक् ॥ १ ॥ अथ वैश्यानां शपथस्वरूपमाहश्रवणपोतस्पर्शनात् काकिणीहिरण्ययोर्वा वैश्यानां ॥ ३२ ॥ टीका -- श्रवणः कर्णः, तथा पोतो बालस्तयो: स्पर्शनेन शपथो भवति । अथवा काकिणीहिरण्ययोर्वा काकिणी त्रिंशत्कपर्दिका हिरण्यं सुवर्ण ताभ्यां स्पर्शनेन वैश्यानां शपथः । तथा च गुरुःशपथो वैश्यजातीनां स्पर्शनात्कर्णबालयोः । काकिणीस्वयोर्वापि शुद्धिर्भवात नान्यथा ॥ १ ॥ अथ शूद्राणां शपथमाह शूद्राणां क्षीरबीजयोर्वल्मीकस्य वा ॥ ३३ ॥ नीति०-२० Jain Education International -- ▬▬▬▬▬ For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy