SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ ३०६ नीतिवाक्यामृते टीका-शूद्राणां तु पुनः क्षीरस्पर्शनेन तथा बीजस्पर्शनेन वल्मीकस्पर्शनेन च शपथो भवति । तथा च गुरु: दुग्धस्यान्नस्य संस्पर्शाद्वल्मीकस्य तथैव च । कर्तव्यः शपथः शूद्रैः विवादे निजशुद्धये ॥ १ ॥ अथ कारूणां शपथस्वरूपमाहकारूणां यो येन कर्मणा जीवति तस्य तत्कर्मोपकरणानां॥३४॥ टीका-~-चतुर्वर्णानां येऽन्ये लोका रजकचर्मकारादयस्ते कारुकाः कथ्यन्ते तेषां यो यत्कर्म कुरुते तस्योपकरणेन स्पृष्टेन शपथः । रजकस्य वस्त्रकुट्टनेन तदुपकरणेन । एवमन्येषामपि यान्युपकरणानि कर्मकृतेः तैः स्पृष्टेन शपथः । तथा च गुरुः-- यो येन कर्मणा जीवेत् कारुस्तस्य तदुद्भवं । कर्मोपकरणं किंचित् तत्स्पर्शाच्छुद्धयते हि सः॥१॥ अथ व्रतिनामन्येषामपि लोकानां यथा शुद्धिर्भवति तदाह' तिनामन्येषां चेष्टदेवतापादस्पर्शनात्प्रदक्षिणादिव्यकोशात्तन्दुलतुलारोहणैर्विशुद्धिः ॥ ३५ ॥ टीका–तिनां तपस्विनां च पार्थात, येऽन्य लोकास्तेषामपीष्टदेवतापादस्पर्शनेन शुद्धिः । अथवा तत्प्रदक्षिणया दिव्येन कोशपानेन वा तन्दुलभक्षणैर्वा विशुद्धिः । तथा च गुरु: वतिनोऽन्ये च ये लोकास्तेषां शुद्धिः प्रकीर्तिता। इष्टदेवस्य संस्पर्शात् दिव्यैर्वा शास्त्रकीर्तितः ॥१॥ अथ व्याधानां शपथस्वरूपमाहव्याधानां तु धनुर्लंघनं ॥ ३६॥ टीका----व्याधानां तु धनुष्मतां पुलिंदानां धनुर्लघनं चापोपरिगमनं । तथा च गुरु: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy