SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ विवादसमुद्देशः । पुलिंदानां विवादे च चापलंघनतो भवेत् । विशुद्धिर्जीवनं तेषां यतः स्वयं प्रकीर्तिता ॥ १ ॥ अथ त्याज्यानां शपथस्वरूपमाह अन्त्यवर्णावसायिनामार्द्रचर्मरोहणं ॥ ३७ ॥ टीका — अन्त्यवर्णावसायिनश्चाण्डालास्तेषामार्द्रचर्मचटनं तथा च गुरु: अन्त्यजानां तु सर्वेषामार्द्रचर्मावरोहणं । शपथः शुद्धिदः प्रोक्तो यथान्येषां च वैदिकः ॥ १ ॥ अथ शाश्वतानि यानि तान्याह - वेश्यामहिला, भृत्यो भण्डः, क्रीणिनियोगो, नियोगिमित्रं चत्वार्यशाश्वतानि ॥ ३८ ॥ वेश्यापत्नी तथा भण्डः सेवकः कृतसंग्रहः । मित्रनियोगिनं यच्च न चिरं स्थैर्यतां व्रजेत् ॥ १ ॥ ३०७ टीका -- एतानि चत्वारि वस्तूनि अशाश्वतानि विनशनशीलानि स्थिराणि न भवन्ति । एका तावद्वेश्यापत्नी, द्वितीयो भृत्यः, तृतीयः क्रीणिनियोगः क्रीणिशब्देन कूतग्रहणं शुल्कादायग्रहणं उच्यते तस्य योगः करणं तदशाश्वतं । तथा चतुर्थ नियोगिमित्रं यन्मित्रं नियोगमधिकारं करोति तद्विनश्यति । तथा च शुक्रः शपथ: । अथ वेश्यानां दूषणमाहक्रीतेष्वाहारेष्विव पण्यस्त्रीषु क आस्वादः ॥ ३९ ॥ टीका - क आस्वादः कोऽनुरागः । कासु ? पण्यस्त्रीषु वेश्यासु विषये । केष्विव ? क्रीताहारेष्विव मूल्यगृहीतभोजनेषु यथानुरागो भवति 1 तथा वेश्यास्वपि तस्मात्ताः सत्पुरुषेण त्याज्याः । तथा च शुक्रःक्रयक्रीतेन भोज्येन यादृग्भुक्तेन सा भवेत् । तादृक्संगेन वेश्यायाः सन्तोषो जायते नृप ! ॥ १ ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy