SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३०८ नीतिवाक्यामृते अथ संसारविषयो यथा नृणां भवति तदाह यस्य यावानेव परिग्रहस्तस्य तावानेव सन्तापः ॥ ४० ॥ टीका - यस्य पुरुषस्य संसारे यावन्मात्रपरिग्रहो मानुषचतुष्पदाद्यस्तस्य तावन्मात्रः सन्तापो यस्य स्तोकः स्यात् सन्तापोऽपि स्तोकः | तथा च नारदः — अनित्येऽत्रैव संसारे यावन्मात्रः परिग्रहः । तावन्मात्रस्तु सन्तापस्तस्मात्त्याज्यः परिग्रहः ॥ १ ॥ तथान्यदपि संसारे विषयमाह- गजे गर्दभे च राजरजकयोः सम एव चिन्ताभारः ॥ ४१ ॥ टीका — यथा राज्ञो हस्तिपोषणविषये चिन्ता भवति तथा रजकस्य गर्दभ पोषणविषये मृते नष्टे वा दुःखं भवति । तथा च नारदः -- गजस्य पोषणे यद्वद्राज्ञः चिन्ता प्रजायते । रजकस्य च बालेये तादृक्षा वाधिका भवेत् ॥ ४२ ॥ अथ मूर्खस्याग्रहेण यद्भवति तदाहमूर्खस्याग्रहो नापायमनवाप्य निवर्तते ॥ ४२ ॥ टीका - मूर्खस्य शठस्य योऽसावाग्रह एकाग्रहो भवति स न निवर्तते नोपशमं याति । किं कृत्वा ? अनवाप्यालब्ध्वा । कं ? अपायं विनाशं । तथ च जैमिनि: - एकाग्रहोत्र मूर्खाणां न नश्यति विना क्षयं । तस्मादेकाग्रहों विज्ञैर्न कर्तव्यः कथंचन ॥ १ ॥ अथ मूर्खस्य विज्ञैर्यत्कर्तव्यं तदाह- कर्पासारि मूर्खस्य शांतावुपेक्षणमौषधं ॥ ४३ ॥ टीका -यथा कर्पासं दह्यमानं उपशमं नेतुं न शक्यते न क्रियते तस्योपशमनविधिस्तत्क्लेशाय केवलं स्यात, एवं मूर्खस्याप्येकाग्र हे विषय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy