SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ विवादसमुद्देशः । ३०९ प्रबोधनं क्लेशाय भवति न तं यतो मूल् मुञ्चति । एवं स्थिते किमौषधं तस्योपशमनविषये उपेक्षणीयं न किंचिद्वक्तव्यं । तथा च भागुरिः कर्पासे दह्यमाने तु यथा युक्तमुपेक्षणं । एकग्रहपरे मूर्खे तद्वदन्यं न विद्यते ॥१॥ अथ भूयोऽपि मूर्खस्य स्वरूपमाहमूर्खस्याभ्युपपत्तिकरणमुद्दीपनपिण्डः ॥ ४४ ॥ टीका--मूर्खस्य यदभ्युपपत्तिकरणं प्रबोधनं । तत्तस्य किंविशिष्टं स्यात ? स तस्य प्रतिबोधनविषये उद्दीपनपिण्डो भवति मूर्खकृत्यस्य वृद्धिकारी भवति तस्मान्मूर्ख न प्रतिबोधयेत् । तथा च गौतमः यथा यथा जडो लोको विझौंकैः प्रबोध्यते । तथा तथा च तज्जाड्यं तस्य वृद्धिं प्रयच्छति ॥१॥ अथ कोपविशिष्टमूर्खाणां प्रबोधेन कृतेन यद्भवति तदाह कोपानिज्वलितेषु मूर्खेषु तत्क्षणप्रशमनं घृताहुतिनिक्षेप इव ॥ ४५ ॥ टीका-मूर्खेषु कोपाग्निज्वलितेषु क्रोधवैश्वानरदह्यमानेषु तत्क्षणादेव तस्मिन् काले या सा प्रशमता शिक्षाप्रदानविषयः क्रियते । स किं विशिष्ट इव ? घृताहुतिनिक्षेप इव । एतदुक्तं भवति यथाग्निः घृताहुत्या प्रवर्धते, एवं मूर्खस्य कोपोऽपि वृद्धिं याति प्रबोधेन । अथ भूयोऽपि मूर्खस्वरूपमाहअनस्तितोऽनङ्गानिव ध्रिमाणो मूर्खः परमाकर्षति ॥४६ ।। टीका-~-मूर्खः कुपितो ध्रियमाणो निवार्यमाणोऽपि परेण । किं करोति? तमप्यन्यं परमप्यतिशयेनाकर्षति शत्रुसंमुखं नयति । क इव ? अनडानिव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy