SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३१० नीतिवाक्यामृते बलीवर्द इव। किंविशिष्टः ? अनस्तितो नासारज्जुरहितः । यथा नासाबन्धनरहितो वृषो ध्रियमाणः पुरुषमपि समाकर्षयति । तथा च भागुरिः नस्तया रहितो यद्वद्रियमाणोऽपि गच्छति । वृषस्तद्वच्च मूखोऽपि धृतः कोपान्न तिष्ठति ॥१॥ अथ गोपालस्योपदेशो नावस्तुनः पदार्थस्य यथा वस्तुत्वं न भवति तदाह-- स्वयमगुणं वस्तु न खलु पक्षपाताद्गुणवद्भवति न गोपालस्नेहादुक्षा क्षरति क्षीरम् ॥ ४७ ॥ टीका-स्वयमेवागुणमात्मनैव विरूपं यद्वस्तु तत्पक्षपातान्न श्लाघ्यमानं शोभनं न भवति । केन दृष्टान्तेन ? यथा गोपालश्लाघितेनोक्षा क्षीरं न क्षरति दुग्धं प्रयच्छति । तथा च नारदः स्वयमेव कुरूपं यत् तन्न स्याच्छंसितं शुभं । यथोक्षा शंसितः क्षीरं गोपालेन ददाति नो ॥१॥ इति विवादसमुद्देशः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy