SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ पाडण्य-समुद्देशः। अथ पाङ्गण्यं व्याख्यायते । तत्रादावेव योगक्षेमस्वरूपमाह-- शमव्यायामौ योगक्षेमयोर्योनिः॥१॥ टीका—योगः कर्मलाभः क्षेमं कुशलं तयोर्द्वयोः शमव्यायामौ योनिरुत्पत्तिस्थानं । तत्र लाभात् क्षेमं व्यायामाद्योगः । शमव्यायामलक्षणमागामिसूत्रे वदिष्यतीति । शमव्यायामयोलक्षणमाह कर्मफलोपभोगानां क्षेमसाधनः शमः कर्मणां योगाराधनो व्यायामः ॥२॥ टीका-कर्मणि कृते यत्फलं भवति तस्य ये योगा विलासास्तेषु यत्क्षेमं कुशलं तद्यः साधयति करोति स शमः । यः पुनः कर्मारम्भः क्रियते तत्र योऽसौ योग उद्यमः स व्यायामः । तथा च शुक्रः .............। ............................................. ॥१ ॥ अथ दैवस्य कर्मणः स्वरूपमाहदैवं धर्माधर्मों ॥३॥ टीका-यः पुरुषो धर्म करोति, अधर्म च पापलक्षणं करोति तदैवं । देवशब्देन प्राक्तनीय कर्म प्रोच्यते । येनान्यजन्मनि शुभं कृतं तच्छुभं करोति । येन पापं कृतं स पापं करोति । तथा च व्यासः-- येन यच्च कृतं पूर्व दानमध्ययनं तपः। तेनैवाभ्यासयोगेन तच्चैवाभ्यस्यते पुनः॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy