SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३१२ नीतिवाक्यामृत अथ मानुषस्य कर्मणः स्वरूपमाह - मानुषं नयानयौ ॥ ४॥ टीका — यत्पुनः पुरुषो नयेनानयेन वर्तते तन्मानुषं ऐहिकं कर्म पुरुषकारलक्षणं तत्र पौरुपेण भवतीत्यर्थः । तथा च गर्ग: नयो वाप्यनयो वापि पौरुषेण प्रजायते । तस्मान्नयः प्रकर्तव्यो नानयश्च विपश्चिता ॥ १ ॥ अथ दैवस्य मानुषस्य च कर्मणः स्वरूपमाहदैवं मानुषं च कर्म लोकं यापयति ।। ५ ।। टीका - यापयति नियोजयति । कं ? कर्मतापन्नं लोकं । किं तत् ? कर्म । किंविशिष्टं ? दैवं मानुषं च द्वाभ्यां संयोगेन पुरुषस्य सिद्धिर्भवति न चैकेन । तथा च गुरु: यथा नैकेन हस्तेन ताला संजायते नृणाम् । तथा न जायते सिद्धिरेकेनैव च कर्मणा ॥ १ ॥ अथ देवस्य कर्मणः स्वरूपमाह तच्चिन्त्यमचिन्त्यं वा दैवं ॥ ६ ॥ टीका -- तद्दैवं कर्म पुरुषेण चिन्तनीयं किं वा सानुकूलं किंवा मम सर्वाणि कर्माणि सिद्धि यान्ति किं वा न यान्तीति ततः कर्मारम्भः कार्यः । अथवा चिन्त्यं दैवं पृष्टितः कृत्त्वा पौरुषं कार्य कदाचित्सिद्ध्यतीति । तथा च वल्लभदेव: उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीदैवं हि दैवमिति का पुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः ॥ १ ॥ अथ दैवायत्तस्य सम्बन्धस्य स्वरूपमाहअचिन्तितोपस्थितोऽर्थसम्बन्धो दैवायत्तः ॥ ७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy