________________
पागुण्यसमुद्देशः ।
३१३
टीका-यदन्यत्कार्य चिन्तयमानस्यान्योऽर्थसम्बन्ध उपस्थानं करोति स दैवायत्तः पूर्वकर्मसमुद्भवः शुभो वाऽशुभो वा । तथा च शुक्रः
अन्याञ्चन्तयमानस्य यदन्यदपि जायते । शुभं वा यदि वा पापं ज्ञेयं दैवकृतं च तत् ॥१॥ अथ मानुषायत्तस्य स्वरूपमाहबुद्धिपूर्वहिताहितप्राप्तिपरिहारसम्बन्धो मानुषांयत्तः ॥ ८ ॥ टीका-तथा च शुक्रः
बुद्धिपूर्व तुन्यत्कर्म क्रियतेऽत्र शुभाशुभं । नरायत्तं च तज्ज्ञयं सिद्धं वासिद्धमेव च ॥ १॥ अथानुकूले दैवे उद्यमरहितस्य यद्भवति तदाहसत्यपि दैवेऽनुकुले न निष्कर्मणो भद्रमस्ति ॥ ९॥ टीका-नास्ति न विद्यते । किं तत् ? भद्रं कल्याणं । कस्य ? निष्कर्मण उद्यमरहितस्य पुरुषस्य। कस्मिन् सति ? अनुकूले प्राञ्जले सति। कस्मिन् ? दैवे प्राक्तनकमणि । तथा च वलभदेवः
उद्यमेन हि सिद्धयन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥ १॥ अथ केवलं दैवपरस्य पुरुषस्य दृष्टान्तमाहन खलु देवमीहमानस्य कृतमप्यनं मुखे स्वयं प्रविशति ॥१०॥ टाका-यावद्धस्तेन नोद्यमं करोति । तस्मान्न दैवं प्रमाणीकृत्योद्यमं परित्यजेत् । तथा च भागुरिः
प्राप्तं दैववशादन्नं क्षुधार्तस्यापि चेच्छुभं । तावन्न प्रविशेद् वक्त्रे यावत्प्रेषति नोत्करः॥१॥ अन्यदपि उद्यमविषये दृष्टान्तमाह
१ अस्य व्याख्या नोपलब्धा । २ अत्रत्यः पाठस्त्रुटित इवावभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org