SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३१४ नीतिवाक्यामृते न हि दैवमवलम्बमानस्य धनुः स्वयमेव शरान् संधत्ते ॥११॥ टीका—दैवमवलम्बमानस्य केवलं दैवमाश्रितस्य पुरुषस्य न किंचिद्भवति । यथा शराश्चापं स्वयमेव न गच्छन्ति तस्मादुद्यमः कार्यः । तथा च जैमिनिः-- नोद्यमेन विना सिद्धिं कार्य गच्छति किंचन । यथा चापं न गच्छन्ति उद्यमेन विना शराः॥१॥ अथ केवलं पौरुषमवलम्बमानस्य पुरुषस्य यद्भवति तदाहपौरुषमवलम्बमानस्यार्थानर्थयोः सन्देहः ॥ १२ ॥ टीका-केवलं पौरुषमवलम्बमानस्यार्थानर्थयोः सन्देहः पौरुषे कृतेऽथों भवति । अथवानर्थो भवति । तथा च वशिष्टः पौरुषमाश्रितलोकस्य नूनमेकतमं भवेत् । धनं वा मरणं वाथ वशिष्ठस्य वचो यथा ॥१॥ अथ दैवस्य पुरुषस्य यद्भवति तदाहनिश्चित एवानर्थो दैवपरस्यः॥ १३॥ टीका-दैवपरस्य पुरुषस्य निश्चित एवानर्थः सन्देहो नास्तीति ।। तथा च नारदः प्रमाणीकृत्य यो दैवं नोद्यमं कुरुते नरः । स नूनं नाशमायाति नारदस्य वचो यथा ॥ १ ॥ अथ देवपुरुषकारयोः संयोगे यद्भवति तदाह आयुरोषधयोरिव दैवपुरुषकारयोः परस्परसंयोगः समीहितमर्थ साधयति ॥ १४ ॥ टीका-निष्पत्तिं नयति । कं ? समीहितमर्थ मनोऽभिलषितं प्रयोजनं । कोऽसौ ? परस्परसंयोगोऽन्योन्यानुबन्धः। कयोरिव ? आयुरोषधयोरिव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy