________________
षागुण्यसमुद्देशः ।
३१५ यथायुरौषधयोः परस्परसम्बन्ध एकं तावत्पुरुषस्यायुर्भवति तदहमौषधं भवति तत्पुरुषो जीवत्येव । अथायुर्न भवति तदर्हमपि तदौषधं न मिलति । अथवायुर्भवति, औषधं मिलति तदपि दीर्घायुः समीहितं न भवति । तथा च भारद्वाजः
विनायुषं न जीवेत भेषजानां शतैरपि ।
न भेषजर्विना रोगः कथंचिदपि शाम्यति ॥ १॥ अथानुष्ठीयमानस्य यद्भवति तदाह
अनुष्ठीयमान: स्वफलमनुभावयन्न कश्चिद्धर्मोऽधर्ममनुवध्नाति ॥ १५ ॥
टीका-न अनुबध्नाति न जनयति । कं ? अधर्म । कोऽसौ ? धर्मः । किंविशिष्टः ? अनुष्टीयमानः क्रियमाणः । पुनः किंविशिष्टः ? कश्चित् कोऽप्यष्टप्रकारमध्यात् । किं कुर्वन्नधर्म न जनयति ? स्वफलमनुभावयन्नात्मीयफलं प्रयच्छन् । एतदुक्तं भवति, धर्म कुर्वतोऽधर्म न भवति । किं विशिष्टः स:
इष्टा(ज्या)ध्ययनदानादि तपः सत्यं क्षमा धृतिः, इति । अलोभ इति वर्गोऽयं पंचाष्टविधः स्मृतः ॥ तथा च भागुरिःयः कश्चित् क्रियते कर्म प्राणिभिः श्रद्धयान्वितैः। स एव हरति प्रायः स्वफलेऽत्र प्रपातकम् ॥ १॥ अथ राज्ञः स्वरूपमाहत्रिपुरुषमूर्तित्वान्न भूभुजः प्रत्यक्षं दैवमस्ति ।। १६॥
टीका-नास्ति न विद्यते । किं तत् ? दैवं । किंविशिष्टं ? प्रत्यक्ष । कस्मात् ? भूभुजो राज्ञः सकाशात् । कुतः ? त्रिपुरुषमूर्तित्वात् हरिहरहिरण्यगर्भर्तित्वात् । एतदुक्तं भवति, येऽन्ये देवास्ते परोक्षा न केनापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org