SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३१६ नीतिवाक्यामृते www.arrrrrrrrrrrrrrrrrrrrr दृश्यन्ते, एष पुना राजा प्रत्यक्षं ब्रह्माविष्णुमहेश्वरमयस्तस्मादनेन समो देवो नास्ति। तथा च मनु: सर्वदेवमयो राजा सर्वेभ्योऽप्यधिकोऽथवा । शुभाशुभफलं सोऽत्र देयाद्देवो भवान्तरे ॥१॥ अथ राजा येन प्रकारेण ब्रह्मा भवति तदाह प्रतिपन्नप्रथमाश्रमः परे ब्रह्मणि निष्णातमतिरुपासितगुरुकुलः सम्यग्विद्यायामधीती कौमारवयोऽलङ्कुर्वन् क्षत्रपुत्रो भवति ब्रह्मा ॥ १७ ॥ टीका-~-ब्रह्मा भवति । कोऽसौ ? क्षत्रपुत्रः क्षत्रियः । कथंभूतः ? प्रतिपन्नप्रथमाश्रमः प्रतिपन्नो रचितः प्रथमाश्रमो ब्रह्मचारिलक्षणो येन स तथा क्षत्रियोऽपि द्वादशमे ब्रह्मचारिव्रतं धत्ते तथा परे ब्रह्मणि विष्णुरूपे निष्णातः संसक्त इति । क्षत्रियस्य यद्ब्रह्मचारिव्रतं तदेव ब्रह्म तत्र निष्णातबुद्धिः । तथा ब्रह्मा उपासितगुरुकुल उपासितं सृष्टं गुरुकुलं बृहदसमरीचिप्रमुखं येन सः। तथा ब्रह्मा विद्यायां देवलक्षणायां अधीती पाठकः, क्षत्रियस्य पुनर्विद्यायाश्चतुर्विधाया आन्वीक्षिकीपूर्वाया अधीती पाठकः । तथा ब्रह्मा कौमारवयोऽलंकुर्वन् कुमारवयसः कुमारादयो ये षड्बुधास्तानलङ्करोति क्षत्रियस्तु कौमारं युवराजलक्षणं यद्वयस्तदलङ्करोति । अथ विष्णुस्वरूपो राजा यथा भवति तदाह संजातराज्यलक्ष्मीदीक्षाभेषकं स्वगुणैः प्रजास्वनुरागं जनयन्तं राजानं नारायणमाहः ॥ १८ ॥ १ श्लोकोऽयं मनुस्मृतौ तु नास्ति २ ब्रह्मचर्यरूपे निष्णातः । ३ "वृहद्धांश" अस्मिन् स्थानेऽयं पाठः । ४ यस्मात् ब्रह्मा अपि गुरुकुलं सेवते, राजापि तस्माद्ब्रह्मा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy