________________
पाड्गुण्यसमुद्देशः ।
३१७.
टीका——नाविष्णुः पृथिवीपतिरिति वाक्यात् । ये ऽसौ विष्णुस्तस्य किल लक्ष्मीर्भवति तया सह दीक्षाभिषेको भवति तथा च नारायणः । ब्रह्म सृजति हरिस्तद्वद्धरः संहरति (?) तथा राजापि प्रजापालनेन रंजयमानो नारायणत्वमाप्नोति । तथा नाविष्णुः पृथिवीपतिरिति वचनात् । तथा
च व्यासः
नामुनिः कुरुते काव्यं नाविष्णुः पृथिवीपतिः । नावलिर्दानं स्यान्न वीरः शौर्यभाग्भवेत् ॥ १ ॥ अथ राजा पिनाकपाणिर्यथा भवति तथाह
प्रवृद्धप्रतापतृतीयलोचनानलः परमैश्वर्यमातिष्ठमानो राष्ट्रकण्टकान् द्विषद्दानवान् छेत्तुं यतते विजिगीषुभूपतिर्भवति पिनाकपाणिः ॥ १९ ॥
टीका - योऽसौ पिनाकपाणिर्महेश्वरस्तस्य तृतीयं नयनं तदाग्नेयं स तेन तृतीयनयनसम्भवो लोचनानलः, राजा प्रवृद्धप्रतापानलः । तथा पिनाकपाणिः परमैश्वर्यमातिष्ठमानोऽसुरान् द्विषद्दानवान् उच्छेत्तुं यतते यत्नं करोति यथा, तथा राजापि जिगीषू राष्ट्रकण्टकानेवासुरान् द्विपदानवान् दुष्टदायदान् उच्छेत्तुं यत्नपरः पिनापाणिर्भवतीति ।
अथ राजमण्डलस्याधिकारः प्रोच्यते
उदासीनमध्यमविजीगीष्वरिमित्रपाणिग्राहाक्रन्दा सारांतर्धयो यथासम्भवगुणविभवान्तरतम्यान्मण्डलानामधिष्ठातारः ॥ २० ॥
"
टीका - उदासीनस्तावत्प्रथमः, ततो मध्यमः, ततो विजिगीषुः . ततोऽरि:, ततो मित्रं ततः पाणिरुहः तत आसारपते (?) अन्तरतम एकान्तरेति राजमण्डलाविष्टिताविपतयो विज्ञेयाः । यथासंभवं नैकैकः मण्डलमेतत् । यो यस्यान्तिमो वर्तते राजा तेन तस्य यो स्थिता राजानस्ते एताभिः संज्ञाभिः यथावस्थित। ज्ञेया इति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org