SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३१८ नीतिवाक्यामृते अथोदासीनलक्षणमाह-- अग्रतः पृष्ठतः कोणे वा सन्निकृष्टं वा मण्डले स्थितो मध्यमादीनां विग्रहीतानां निग्रहे संहितानामनुग्रहे समर्थोऽपि केन चित्कारणेनान्यस्मिन् भूपतो विजीगीषुमाणे य उदास्ते स उदासीनः ॥ २१ ॥ ___टीका~यो राजा कस्यापि राज्ञः स्वमण्डलस्थः सन् अग्रतः पृष्टतः पार्वे कोणे वा स्थितः सन्निकृष्टे समीपे स्थितो मध्यमादीनां विग्रहीतानां केनापि भूभुजा विग्रहे संग्रामे संहतानां प्रवृत्तानामनुग्रहे निवारणे समर्थोऽपि येन केन कारणेन कयापि कार्यापेक्षया अन्यस्मिन् भूपतो राज्ञि विजिगीषुमाणे विजेतुमिच्छति य उदास्ते उपेक्षते स उदासीनः कथ्यते । अथ मध्यस्थस्य लक्षणमाहउदासीनवदनियतमण्डलोऽपरभूपापेक्षया समधिकवलोऽपि कुतश्चित्कारणादन्यस्मिन्नृपतौ विजिगीषुमाणे यो मध्यस्थभावमवलम्बते स मध्यस्थः ॥ २२॥ टीका—यो राजाऽनियतमण्डलो भवति अनियतानि अपर्यन्तानि मण्डलानि भवन्ति सोऽपरभूपालापेक्षया यद्यहमेकस्य साहाय्यं करोमि तद्वितीयो मे वैरी भवतीति स्वं चिन्तयन् स्वयं समधिकबलोऽपि उदासीनवत् य आस्ते स मध्यस्थ उच्यत इति । अथ विजिगीषुलक्षणमाह-- राजात्मदैवद्रव्यप्रकृतिसम्पन्नो नयविक्रमयोरधिष्ठानं विजिगीषुः ॥ २३ ॥ टीका-आत्मशब्देन राज्याभिषेक उच्यते । दैवं प्राकर्म शुभं । द्रव्य भाण्डागारः । प्रकृतिरमात्याद्या राजपुरुषाः । एतैश्चतुर्भिः पदार्थैर्यो युक्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy