SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ षागुण्यसमुद्देशः। ३१९ तथाधिष्ठानं वसतिः । कयोः ? नयविक्रमयोः नीतिशौर्ययोः स विजिगीषुरुच्यते । अथारिलक्षणमाहय एव स्वस्याहितानुष्ठानेन प्रातिकूल्यमीयर्ति स एवारिः।२४। टाका-स एव स्वस्यात्मीयस्य कस्यचिदहितानुष्ठानेनापराधक्रियया प्रातिकूल्यं दुष्टत्वमाचरति सदैव सोऽरि : कथ्यते । मित्रलक्षणमुक्तमेव पुरस्तात् ॥ २५ ॥ पाणि ग्रहलक्षणमाह यो विजिगीषौ प्रस्थितेऽपि प्रतिष्ठमाने वा पश्चात्कोपं जनयति स पाणिग्राहः ॥२६॥ ___टीका-कश्चिद्राजा विजिगीषौ विजययात्रायां प्रस्थितेऽन्यस्य भूपस्योपरि प्रतिष्ठमानेऽथवा गन्तुकामेऽथवा पश्चात्कोपं जनयति तद्देशमर्दनं करोति स पाणिग्राह ऊच्यते । अथाक्रन्दस्य लक्षणमाहपाणिग्राहाद्यः पश्चिमः स आक्रन्दः ॥ २७ ॥ टीका-आक्रन्दयति विजिगीषोः समित्रत्वे यतः सर्वेऽपि सीमान्ततरिता मित्रस्थाने भवन्ति । अथासारलक्षणमाह पाणिग्राहमित्रमासार आक्रन्दमित्रं च ॥ २८ ॥ टीका-पाणिग्राहाद्यः सीमान्तरितस्तस्य मित्रत्वे वर्तमानः स आ सारः कथ्यते । आशब्दो मर्यादा वाचकः सर्वेषां विजिगीषुपाणिग्राहाक्रन्दादीनां पर्यन्ते सरति वर्तते तेन आसारः तं पाणिमित्रमाक्रन्दमित्रं चैकसीमाधिपतित्वात् कथयन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy