SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३२० नीतिवाक्यामृते अथान्तधिलक्षणमाह अरिविजिगीषोमण्डलान्तर्विहितवृत्तिरुभयवेतनः पर्वताटवीकृताश्रयश्चान्तर्धिः ॥ २९ ॥ ____टीका-अन्तर्विशब्देन चरटः कथ्यते। य इत्थंभूतो भवति सोऽन्तधिः । अरि विजिगीषोर्मण्डलान्तरसमा यो महाटवी निवासः पर्वताश्रेयो वोभयवेतनो भवति । विषमाश्रयबलाद्विजिगीषु तमरिं च द्वावपि दण्डेन योजयत्यसावन्तर्धिरुच्यते । एवं सप्तविधराजमण्डलमन्तर्धिसहितं भूभुजा विज्ञेयं । अथ यादृग्रूपो रिपुर्विगृहीतव्यो विजिगीषुणा तत्स्वरूपमाह अराजबीजी लुब्धः क्षुद्रो विरक्तप्रकृतिरन्यायपरो व्यसनी विप्रतिपन्नमित्रामात्यसामन्तसेनापतिः शत्रुरभियोक्तव्यः॥३०॥ टीका-इत्थंभूतो यः शत्रुर्भवति स विजिगीषुणाभियोक्तव्यो विगृहीतव्यः । किंविशिष्ट ? अराजबीजी जारजातोऽज्ञदेशीयो वा । तथा यो लुब्धो भवति । क्षुद्रो दुष्टहृदयः । तथा विरक्तप्रकृतिविरक्तपरिग्रहः । तथान्यायपर उन्मार्गगामी । व्यसनी द्यूतपानादिभिर्व्यसनैः समेतः । तथा विप्रतिपन्नमित्रामात्यसामन्तसेनापतिः विप्रतिपन्नाः- पराङ्मुखीभूता मित्रामात्यसेनापतिसामन्ता यस्य स तथा । एवंविधः शत्रुः साध्यो भवति । तथा च शुक्रः-- विरक्तप्रकृतिर्वेरी व्यसनी लोभसंयुतः। क्षुद्रामात्यादिभिर्मुक्तः स गम्यो विजीगीषुणा ॥१॥ अथ भूमिपेन शत्रोर्यत्करणीयं तःहअनाश्रयो दुर्बलाश्रयो वा शत्रुरुच्छेदनीयः॥ ३१ ॥ टीका-यः शत्रुरनाश्रयो भवति आश्रयं न लभते दुलं वा कमप्याश्रयेत् स उच्छेदनीयो योधनीयः । तथा च शुक्रः-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy