SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ षाड्गुण्यसमुद्देशः । अनाश्रयो भवेच्छत्रुर्यो वा स्याद्दुर्बलाश्रयः । तेनैव सहितः सोऽत्र निहन्तव्यो जिगीषुणा ॥ १ ॥ अथ भूयोऽपि यत्कर्तव्यं तदाह विपर्ययो निष्पीडनीयः कर्षयेद्वा ।। ३२ ।। टीका - यदि शत्रुविषये विपर्ययो भवति मैत्रं भावं गच्छति तत्तं निष्पीडयेद्विभवहीनं कुर्यात् कर्षयेद्वा व्यापादयेद्वा । तथा च गुरुः शत्रुर्मित्रत्वमापन्नो यदि नो चिन्तयेच्छिवम् । तत्कुर्याद्विभवहीनं युद्धे वा तं नियोजयेत् ॥ १ ॥ अथ सहजस्य स्त्रोर्लक्षणमाह ____ समाभिजनः सहजशत्रुः ॥ ३३ ॥ टीका - समाभिजनशब्देन दायाद उच्यते स सहजशत्रुः । यथा मूपकस्य मार्जरः कदाचिच्छुभं न चिन्तयति । तथा च नारदः गोत्रजः शत्रुः सदा तत्पदवाञ्छकः । रोगस्थेव न तद्विद्धं कदाचित्कारयेत्सुधीः ॥ १ ॥ ***** Jain Education International ३२१ अथ कृत्रिमशत्रोः स्वरूपमाह - विराधो विराधयिता वा कृत्रिमः शत्रुः ॥ ३४ ॥ टीका - करणेन निर्वृत्तः कृत्रिमः । यः शत्रुविंरावो भवति यस्य विरोधो क्रियते स विराध उच्यते शत्रुर्यः पुनर्विजिगीषोरुपेत्य विरोधं करोति सोऽप्यकृत्रिमः शत्रुः । यदि हीनबलो भवति विग्रहीतव्यः । यद्यधिकबलो भवति तदा साम्ना सन्तोषयेत् । तथा च गर्ग : ―――――――――― यदि हीनबलः शत्रुः कृत्रिमः संप्रजायते । तदा दण्डोऽधिको वा स्याद्देयो दण्डः स्वशक्तितः ॥ १ ॥ अथ शत्रुमित्रकारणमाह अनन्तरः शत्रुरेकान्तरं मित्रमिति नैष एकान्तः कार्यं हि मित्रत्वामित्रत्वयोः कारणं न पुनर्विप्रकर्षसन्निकर्षो ॥ ३५ ॥ नीति०-२१ For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy