________________
३२२
नीतिवाक्यामृते
___टीका-यदेवं वदति अनन्तरः सीमाधिपः शत्रुर्भवति तस्यानन्तरंयस्तन्मित्रं तन्नैष एकान्तः सदा लक्षणकार्यः । ( कार्य ) हि शत्रुमित्रत्वयोः (कारणं) कार्यवशात्सीमाधिपोऽपि मित्रतां याति शत्रुत्वं च ( तत्परजः ) शत्रुर्भवति मित्रं भवति न पुनः सन्निकर्ष कारणं विप्रकर्षों वा, सीमान्तरितः मित्रं, सन्निकर्षः समीपस्थः सीमाधिपः शुत्रुर्नैष एकान्तः सदैव भवतीति । तथा च शुक्रः
कार्यात्सीमाधिपो मित्रं भवेत्तत्परजो रिपुः । विजिगीषुणा प्रकर्तव्यः शत्रुमित्रोपकार्यतः ॥ १॥ अथ शक्तेर्बुद्धिशक्तेश्च विशेषमाहबुद्धिशक्तिरात्मशक्तेरपि गरीयसी ॥ ३६ ॥ टीका-गरीयसी। काऽसौ ? बुद्धिशक्तिः । कस्याः सकाशात् ? आत्मनः शक्तेः । यस्य विजिगीषोरात्मशक्तिर्भवति स बलवानपि बुद्धिमता दुर्बलेनापि हन्यते ।
शशकेनेव सिंहव्यापादनमत्र दृष्टान्तः ॥ ३७॥ टीका-यथा सिंहः शशकेनहतः, एप सिंहशशकदृष्टान्तो पंचतंत्रके
........... । तथा चयस्य बुद्धिर्बलं तस्य निर्बुद्धश्च कुतो बलम् । वने सिंहो मदोन्मत्तः शशकेन निपातितः॥१॥ अथ प्रभुशक्ते: स्वरूपमाहकोशदण्डबलं प्रभुशक्तिः ॥ ३८ ॥
टीका-यस्य विजिगीषोः कोशो भाण्डागारं भवति स दण्डः हस्त्यश्वपदातिलक्षणो भवति सा तस्य प्रभुशक्तिः कथ्यते, तस्या:--
शूद्रशक्तिकुमारौ दृष्टान्तौ ॥ ३९ ॥
.
....
....
.
१ मूलपुस्तकात्संयोजितमिदं सूत्रं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org