________________
षागुण्यसमुद्देशः।
३२३ टीका–एतौ उभयवाचनके ज्ञेयौ । अथोत्साहशक्तिलक्षणमाहविक्रमो बलं चोत्साहशक्तिस्तत्र रामो दृष्टान्तः॥४०॥
टीका-यस्य विजिगीपोर्विक्रिमः पराक्रमो भवति । तथा बलं सैन्यं भवति उत्साहशक्तिः सोच्यते । अत्र रामो दृष्टान्तः–रामेण विक्रमवता वानरबलयुक्तेन रावणो निपातितः । तथा च गर्गः
सहजो विक्रमो यस्य सैन्यं बहुतरं भवेत् । । तस्योत्साही ताद्धे या ?......दाशरथैः पुरा ॥१॥ अथ विजिगीषोः शक्तित्रययुक्तहीनस्य शत्रुतुल्यशक्तेर्यद्भवति तदाह
शक्तित्रयोपचितो ज्यायान्, शक्तित्रयापचितो हीनः समानशक्तित्रयः समः ॥४१॥ ___टीका—यो विजिगीषुः शत्रोः सकाशाच्छक्तित्रयोपचितो भवति शक्तित्रयाभ्यधिको भवति स ज्यायान् श्रेष्ठतमः परं जयति युद्धे । यः पुनः शक्तित्रयपतितो भवति स हीनः परेण जीयते । यः शक्तित्रयेणतुल्यो भवति स समः प्रोच्यते यद्यपि समस्तथापि युद्धं न कर्तव्यं । तथा च गुरुः--
समेनापि न योद्धव्यं यद्युपायत्रयं भवेत् । अन्योन्याहति ? यो संगो द्वाभ्यां संजायते यतः ॥१॥ अथ षाड्गुण्यं व्याख्यायते तस्य संज्ञाकरणमाहसन्धिविग्रहयानासनसंश्रयद्वैधीभावाः पाडण्यं ॥ ४२ ॥ पणबन्धः सन्धिः ॥ ४३ ॥
१ वानरवंशोत्पन्नहनुमदादिसहायेन । वानरशब्दो वंशवाचकः न तु मर्कटवाचकः २ गतार्थमेतत् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org