SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३२४ नीतिवाक्यामृते टीका --- यत्र शत्रुणा सह पणबन्धः क्रियते केनचित्पदार्थेन गृहीतेन वा शत्रोस्तेन विहितेन यो भवति स पण उच्यते तेन सन्धिर्भवति । तथा च शुक्रः दुर्बलो बलिनं यत्र पणदानेन तोषयेत् । तावत्सन्धिर्भवेत्तस्य यावन्मात्रः प्रजल्पितः ॥ १ ॥ अथ विग्रहस्य स्वरूपमाह अपराधो विग्रहः ॥ ४४ ॥ टीका - यदा यस्य विजिगीषोः कोऽप्यपराधं करोति तदा विग्रहः स्यात् । अथ यानस्वरूपमाह अभ्युदयो यानं ॥ ४५ ॥ टीका — यदा शत्रोरुपरि गम्यतेऽभ्युदयः क्रियते । अथवा बलवन्तं रिपुं ज्ञात्वान्यत्र गम्यते । अथासनस्वरूपमाह उपेक्षणमासनं || ४६ ॥ टीका - यदा शत्रुरागन्तुमुद्यतो भवति तदा तस्योपेक्षणं कर्तव्यं सहसा दे (ए) व स्थानत्यागं कर्यात् । किं वा तेन सह युद्धशक्तिः किंवा नास्ति । — अथ संश्रयस्य स्वरूपमाह परस्यात्मार्पणं संश्रयः ॥ ४७ ॥ Jain Education International and टीका- - यदा शत्रुर्बलवानागच्छति स्थातुं स्वस्थाने न शक्यते तदात्मा. तस्यार्प्यते आत्मनो विनिवेदनं कृत्वा शपथाद्यैः स्वराष्ट्रं रक्षेत् । अथ द्वैधीभावस्य स्वरूपमाह For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy