SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ पाड्गुण्यसमुद्देशः । ३२५ एकेन सह सन्धायान्येन सह विग्रहकरणमेकेन वा शत्रौ सन्धानपूर्व विग्रहो द्वैधीभावः ॥ ४८ ॥ टीका - यदा शत्रुद्वयमुपस्थितं भवति तदैकेन सह विग्रहकरणं युक्तं, द्वितीयेन सह बलवता सन्धानपूर्वो विग्रहः, प्रथमं सन्धानं कृत्वा पश्चाद्विग्रहः कार्यः । न द्वाभ्यां हेलया विग्रहः कार्यः । एतद्द्वैधीभावस्य स्वरूपम् । अथ बुद्ध्याश्रयस्य द्वैधीभावस्य स्वरूपमाह - प्रथमपक्षे सन्धीयमानो विगृह्यमाणं विजिगीषुरिति द्वैधीभावो बुद्धयाश्रयः ॥ ४९ ॥ टीका - हीयमानेन विजिगीषुणा शत्रोर्यथा सन्धिः कार्यः तदाहहीयमानः पणबन्धेन सन्धिमुपेयात् यदि नास्ति परेषां विपणितेऽर्थे मर्यादोल्लंघनम् ॥ ५० ॥ टीका - हीयमानो विजिगीषुः परेषां सकाशात् पणबन्धेन दण्डव्यवस्थया सन्धिमुपेयात् सन्धानं कुर्यात् । यदि नास्ति तेषां विपणितेSर्थे व्यवस्थायां कृतायां मर्यादोलुंवनं यदि तेषां मर्यादातिक्रमणं न भवति । तत्र विषये शपथः कोशपानादिभिर्निवृत्तिः कार्येति । तथा च शुक्रः हीयमानेन दातव्यो दण्डः शत्रोर्जिगीषुणा । बलयुक्तेन यत्कार्य तैः समं निधिनिश्वियो ? ॥ १ ॥ अथ विजिगीषुणा बलयुक्तेन यत्कार्य तदाह अभ्युच्चीयमानः परं विगृह्णीयाद्यदि नास्त्यात्मबलेषु क्षोभः ॥ ५१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy