SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३२६ नीतिवाक्यामृते टीका---शत्रोः सकाशाद्विजिगीषुर्यद्यभ्यधिको भवति तत्तं विगृह्णीयात् तस्योपरि विग्रहं कुर्यात् । यदि आत्मबलेषु निजसैन्येषु क्षोभो भयं न स्यात् । तथा च गुरु: यदि स्यादधिकः शत्रोविजिगीषुनिजैर्बलैः।। क्षोभेन रहितैः कार्यः शत्रुणा सह विग्रहः ॥१॥ अथान्यदपि विजिगीषुणा यत्कर्तव्यं तदाह न मां परो हन्तुं नाहं परं हन्तुं शक्त इत्यासीत यद्यायत्यामस्ति कुशलम् ॥ ५२ ॥ टीका-आयत्यां परिणामे यदि शत्रोः कुशलं ज्ञायते तद्विग्रहं न कुर्यात् । यद्येवं मन्यते परो मां न हन्ति नाहं परं हनिष्यामीति सन्धिद्वारेण वर्तितव्यमिति । तथा च जैमिनिः न विग्रहं स्वयं कुर्यादुदासीने परे स्थिते । बलाढ्येनापि यो न स्यादायत्यां चेष्टितं शुभं ॥१॥ अथ भूयोऽपि यत्कर्तव्यं तदाह गुणातिशययुक्तो यायाधदि न सन्ति राष्ट्रकण्टका मध्ये न भवति पश्चात्क्रोधः ॥ ५३ ॥ टीका-तद्देशोपरि यदि न कोपः यदि राष्टकण्टका मध्ये न भवन्ति तद्गुणातिशययुक्तो बहुगुणो विजिगीषुर्यायात् गच्छेत्परोपरि । तथा च भागुरिः गुणयुक्तोऽपि भूपालोऽपि यायाद्विद्विषोपरि ?। यद्यतेन हि राष्ट्रस्य बहवः शत्रवोऽपरे ॥ १॥ अथ विजिगीषोः स्वमण्डलमपालयतः परं परदेशं गच्छतो यद्भवति तदाह १ न कण्टकारूपः इति पाठोऽस्य स्थाने पुस्तके। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy