SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ३२७ षामुण्यसमुद्देशः। स्वमण्डलमपरिपालयतः परदेशाभियोगो निवसनने शिरोवेष्टनमिव ॥ ५४॥ टीका-उष्णीषकरणमिव । केन ? निवसनेन परिधानवस्त्रेण । कस्येव ? अन्धस्येव हास्याय यथान्धः परिधानवस्त्रेण शिरोवेष्टने कृते हास्यतां याति तथा विजिगीषुरपि पश्चात्कोपे स्थिते राष्ट्रविध्वंसे स्थिते हास्यतां याति तस्मात्स्वदेशं रक्षितं कृत्वा परदेशं यायात् । तथा च विदुरः य एव यत्नः कर्तव्यः परराष्ट्रविमर्दने। . स एव यन्नः कर्तव्यः स्वराष्ट्रपरिपालने ॥१॥ अथ शक्तिहीनेन विजिगीषुणा यत्कर्तव्यं तदाह रज्जुवलनमिव शक्तिहीनः संश्रयं कुर्याद्यदि न भवति परेपामामिषम् ॥ ५५ ॥ ____टीका-यदा हीनबल: शत्रोः सकाशात् भवति तदा संश्रयं कुर्यात् द्वयानां सकासं (बलानां साकाशं ) गच्छेत् । यदि तेषामामिषं व्यसनं न भवति । किमिव संश्रयं कुर्यात् ? रज्जुवलनमिव यथा प्रभूततन्तुसंश्रयाद्रज्जुईढो भवति न त्रुटयति तथा विजिगीषुरपि । तथा च गुरुः स्याद्यदा शक्तिहीनस्तु विजिगीषुर्हि वैरिणः । संश्रयीत तदा चान्यं बलाय व्यसनच्युतात् ॥१॥ अथ बलानां सम्प्रदायेन यद्भवति तदाहबलवद्भयादबलवदाश्रयणं हस्तिभयादेरण्डाश्रयणमिव ॥५६॥ टीका-बलवद्रिपोर्भयात् यदबलस्य बलहीनस्य संश्रयः क्रियते । स किंविशिष्ट इव ? हस्तिभयादेरण्डारोहणमिव यथा हस्तिभयादेरण्डाश्रयः १ " स्वदेशं कृत्वा " इत्यपि पाठोऽस्मादने । २ अस्य स्थाने स्वदेशं इति पाठः पुस्तके। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy