SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३२८ नीतिवाक्यामृते कृतः एरण्डेनापि सह पुरुषो विनाशं गच्छति तस्माद्धीनबलो न संश्रयणीयः । तथा च भागुरिः-- सबलाढ्यस्य बलाद्धीनं यो बलेन समाश्रयेत् । स तेन सह नश्यत यथैरण्डाश्रयी गजः ॥१॥ अथ स्थिरस्यास्थिरस्याश्रयेण यद्भवति तदाह खयमस्थिरेणास्थिराश्रयण नद्यां वहमानेन वहमानस्याश्रयणमिव ॥ ५७॥ ___टीका-यो विजिगीषुः स्वयमस्थिरो भवति शत्रुपरित्रस्तो भवति स यदान्यं शत्रुपरिभूतं संश्रयते तदा तेनैव विनाशं याति । कथं ? यथा नद्यां नीयमानोऽन्यं नीयमानं संश्रयते ततो द्वाभ्यामपि विनाशो भवति तस्मादस्थिरं न समाश्रयीत । तथा च नारदः - बलं बलाश्रितेनैव सह नश्यति निश्चितं । नीयमानो यथा नद्यां नीयमानं समाश्रितः ॥१॥ अथ मानिनां यत्कर्तव्यं तदाहवरं मानिनो मरणं न परेच्छानुवर्तनादात्मविक्रयः ॥ ५८॥ टीका-मानिनः साहंकारस्य राज्ञः । वरं श्रेष्ठं । किं तत ? मरणं न परच्छन्दानुवर्तनेन शत्रोराज्ञाकरणेनात्मविक्रयः कृतस्तस्माच्छत्रोः संश्रये न कार्यः । तथा च नारद:-- वरं वनं वरं मृत्युः साहंकारस्य भूपतेः । न शत्रोः संश्रायाद्राज्यं......कार्य कथंचन ॥१॥ अथ कार्यापेक्षया विजिगीषुणा यत्कर्तव्यं तदाह आयतिकल्याणे सति कस्मिंश्चित्सम्बन्धे परसंश्रयः श्रेयान् ॥ ५९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003150
Book TitleNiti Vakyamrutam Satikam
Original Sutra AuthorSomdevsuri
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages466
LanguageSanskrit
ClassificationBook_Devnagari, Literature, Ethics, G000, & G999
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy